________________
योजनगामिन्या वाण्या देशनाकरणं तु तीर्थकृतामेवातिशयः शास्त्रे प्रतीतोऽस्ति, न गणभृतामिति, पर्षदां साङ्कर्यमाश्रित्यापि तवसरौचित्येन यादृच्छिकी प्रवृत्तिरवसेया, व्यक्तैकपाक्षिकनियामकाक्षराभावादिति ॥ ४ ॥
तथा—विजयादिविमानवासिनो देवा नारकतिर्यग्भवनपत्यादिषु यान्ति न वा इति ? प्रश्नोऽत्रोत्तर-ते देवा आनन्तर्येण पारम्पर्येण वा नारकतिरश्चोभवनपतिव्यन्तरज्योतिष्केषु च नायान्तीत्यक्षराणि प्रज्ञापनायां पञ्चदशपदवृत्तौ ॥५॥
तथा- यस्याष्टावतिचारगाथा नायान्ति तेनाष्टौ नमस्कारा गण्यन्ते, परं गाथाया उच्छासा द्वात्रिंशद्भवन्ति नमस्कारचतुष्कस्यापि तथैव, नमस्काराष्टकस्य तु चतुष्षष्टिरुच्छासा भवन्ति तत्कथं, इति ! प्रश्नोऽत्रोत्तरं-यस्याष्टौ गाथा नायान्ति तस्याष्ट नमस्कारकार्योत्सर्गः कार्यते, न तूच्छासमानमिति ॥ ६ ॥
अथ महोपाध्यायश्रीमुनिविजयगणिकृतप्रश्नास्तदुत्तराणि च ॥ | यथा-वासुदेवोत्पाट्या कोटिशिला शाश्वत्यशाश्वती वा !, सा च कुत्र स्थानकेऽस्ति !, तथा सर्वासुदेवैस्सर्वाऽप्युत्पाट्यतेऽथवा एकदेशेन ? तथा नराणां कोट्योत्पाट्या कोटीशिलेति यथार्थ नामान्यथा वेति ? प्रश्नोऽत्रोत्तरं-कोटिशिलाऽशाश्वतीति ज्ञायते, गङ्गासिन्धुवैताठ्यादिशाश्वतपदार्थानां मध्ये शास्त्रे तस्या अदर्शनात् , तथा सा मगधदेशे दशार्णपर्वतसमीपे चास्तीति । तथा सर्वैरपि वासुदेवैस्सर्वाऽप्यु. त्पाट्यो, न त्वेकदेशेन, परं प्रथमेन छत्रस्थानं चरमेण च भूमेश्चतुरङ्गलानि यावन्महता कष्टेन जानु यावद्वा नीयते । तथा नराणां कोट्योत्पाट्यत्वेन श्रीशान्तिनाथादिजिनषटुतीर्थगताने कमुनिकोटीनां तत्र सिद्धत्वेन च कोटिशिलेत्यभिधीयत इत्येतदक्षराणि तीर्थकल्पादौ सन्तीति ॥ ७ ॥
Jain Educ
a
tional
For Private & Personel Use Only
www.jainelibrary.org