SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ | विहारः कथ्यते, यो गीतार्थस्य निश्रयाऽगीतार्थस्सन् पृथग् विहारं करोति सोऽपि गीतार्थनिश्रितविहारः कथ्यते, यत एतद्गाथाया 'बीओ गीअत्यमीसिओ मणिओ' इति 'बीओ गीअत्थनीसिओ भणिओ' इति पाठद्वयं प्रवचनसारोद्धारटीकायर्या व्याख्यातमस्तीति ज्ञेयम् ॥२॥ तथा-सत्यकिविद्याधरेण श्रीवर्द्धमानस्वामिनः पुरस्तात्कथितं यावत्मिथ्यात्वं वर्त्तते तावत्सर्व समुद्रमध्ये निमज्जयाम्येतद्वार्ता प्रघोषणास्ति ! किं वा ग्रन्थे तत्प्रसाद्यमिति प्रश्नोत्रोत्तर-प्रघोषेणैतद्वार्ता श्रूयते, परं ग्रन्थेऽक्षराणि न दृष्टानीति ॥ ३ ॥ तथा-कश्चिद् श्राद्ध एकाशनद्वयशनप्रत्याख्यानेन विना प्रासुकजलं पिबति पाणस्साद्याकारानुञ्चरति च तस्य रात्रौ द्विधाहारनिधाहारो वा कृतः शुद्धयति किंवा चतुर्विधाहार इति प्रश्नोऽत्रोत्तरं-रात्रौ चतुर्विधाहारं करोतीति परम्पराऽस्ति ॥ ४॥ तथा-समुद्रमध्ये मत्स्यो जातिस्मरणेन कृत्वा सम्यक्त्वं देशविरतिं च प्राप्नोति, ते प्राप्य पश्चात् तत्कालं अनशनं करोति किंवा कियकालं सम्यक्त्वदेशविरती आराधयतीति प्रश्नोत्रोत्तरं-कश्चित्तत्कालमनशनमुच्चरति, कश्चिच्च कालान्तरेणोच्चरतीति ज्ञायते, निश्चयादक्षराणि तु न दृष्टानीति ॥५॥ ___तथा—कश्चिदुपशमश्रेणिमेकशः करोति, स निश्चयेन तस्मिन्नेव भवे द्विशः करोति न वा इति प्रश्नोऽग्रोसरं-तस्मिन् मवे द्विशः करोत्येवेति नियमो ज्ञातो नास्ति, यापशमश्रेणिमेकस्मिन् भवे उत्कृष्टां करोति तदा द्विशः करोतीति ज्ञातमस्ति ।। १॥ तथा-सम्यक्त्वं प्राप्य योऽर्द्धपुद्गलपरावर्त्तको जीवः स संसारमध्ये कियत्कालं तिष्ठति ( स परावतः अर्धकालमानः अर्धलोकप्रदेशमरणप्रमाणो वा) इति प्रश्नोऽत्रोचरं-सक्ष्मक्षेत्रपुद्गलपरावर्त कुर्वतां यावान्कालो जायते तावान्काल: पुद्गलपरावतः तस्यान यावान् कालो जायते For Private & Personal use only miw.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy