________________
अथ गणिदामर्षिकृतप्रश्नास्तदुत्तराणि च । यथा- पद्मचरित्रे राम एकाक्येव सिद्ध इत्युक्तं, श्रीशत्रुञ्जयमाहात्म्यादिषु तु त्रिकोटिसाधुभिस्साई मुक्तिगमनमुक्तं, तयोभिन्नत्वमेकत्वं वा इति प्रश्नोऽत्रोत्तर-उभयत्रोक्तो राम एक एव, परं पद्मचरित्रे प्राधान्याद्रामस्यैवाभिधानं नान्येषां, शत्रुञ्जयमाहात्म्ये तु परिवारसहितस्याभिधानमित्यत्र ग्रन्थकृदभिप्राय एव प्रमाणमिति ॥ ४७८ ॥
तथा-श्रीशालिभद्रकृते गोभद्रदेवेन नीयमानमलङ्कारादि वस्तु वैक्रियमौदारिकं वा इति प्रश्नोऽत्रोत्तरं-अलङ्कारादि वस्तु औदारिकमिति के ज्ञायते ४७९॥
सथा-वैक्रियमन्दारपुष्पमालादि निर्माल्यं विगन्धि च स्यान्नवा इति प्रश्नोऽत्रोत्तरं-वैक्रियमन्दारपुष्पादि विशरारुतामेति, न तु विगन्धि | Ta स्यादिति ज्ञायते ॥ ४८०॥
तथा-साध्वीवन्दने श्राद्धा 'अणुजाणह भगवति पसाउगरिन् ' इति पठन्त्यन्यथा वा इति प्रश्नोऽत्रोत्तरं-साध्वीनां वन्दने 'अणुजाणह भगवति ! पसाउगरी' ति पठन्ति ॥ ४८१ ॥
तथा-कियद्भिः परमाणुभिस्त्रसरेणुर्भवतीति प्रश्नोऽत्रोत्तरं-अनन्तसूक्ष्मपरमाणुभिरेकः व्यवहारपरमाणुर्जायते, अष्टव्यवहारपरमाणुभिरेका उत्श्लक्ष्णम्लक्ष्णिका जायते, ताभिरष्टभिरेका श्लक्ष्णश्लक्षिणका जायते, ताभिरष्टमिरेक ऊर्ध्वरेणु यते, एभिरष्टमिरेकस्त्रसरेणुर्जायते, एतावता कोऽर्थःचतुस्सहस्त्रैः षण्णवत्यधिकैर्व्यवहारपरमाणुभिरेकस्त्रसरेणुर्जायते इत्यर्थः ।। ४८२ ॥
Jain Education intematona
For Private & Personel Use Only
a
w.jainelibrary.org