SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्ने ३ उल्लासः रङ्गवर्द्धन |३९५-४०१ तथा-निर्वाणावसरे श्रीवीरेण षोडश प्रहरान् यावद्देशना दत्ता, सा कस्माद्दिनादारभ्य कस्मिन् दिने पूर्णा जाता इति प्रश्नोऽत्रोत्तरंचतुर्दशीदिनादारभ्यामावास्यायाः पाश्चात्यघटिकाद्वयरात्रौ देशना पूर्णा जाता सम्भाव्यते, यतोऽमावास्यायामेकोनत्रिंशन्मुहूर्तेः 'निर्कणं कथितमस्ति, पोडश प्रहरास्तु ततोऽर्वाग् जाता युज्यन्त इति ॥ ४५०॥ अथ गणिरङ्गवर्द्धनकृतप्रश्नास्तदुत्तराणि च । यथा-श्रावकस्य निर्विकृतिकप्रत्याख्याने यतिवन्निर्विकृतिकं कल्पते न वा इति प्रश्नोऽत्रोत्तरं-यतीनां श्रावकाणां च मुख्यवृत्त्या निर्वि|| कृतिकं न कल्पते, कारणे तु कल्पते, एवंविधान्यक्षराणि शास्त्रे सन्ति, तस्मात् श्राद्धः कदाचिन्निर्विकृतिकप्रत्याख्यानं करोति तस्य न कल्पते, बद्धतपसि तु कल्पते, कारणत्वाद् एकान्तेन निषेधो ज्ञातो नास्ति, यतीनां तु पर्वादिषु पुनः पुनस्तत्प्रत्याख्यानकरण कल्पत इति ॥ ४५१ ॥ तथा-पौषधं कर्तुकामस्योपवासं कर्तुकामस्य च रात्रौ सुखभक्षिकाभक्षणं कल्पते न वा इति प्रश्नोत्रोत्तर-पौषधोपवासं कर्तुकामस्य श्राद्धस्य मुख्यवृत्त्या रात्रौ सुखभक्षिकाभक्षणं न कल्पते, यस्य तु सर्वथा तद्विना न चलति स प्रथमरात्रिप्रहरद्वयं यावत्कदाचित्सुखभक्षिकां | भक्षयति तदा पौषधस्थोपवासस्य वा भङ्गो न भवति, यदि तु तत्कालानन्तरं भक्षयति तदा भङ्गो भवतीति ॥ ४५२ ॥ तथा-पुस्तकोपकरणादिकं परिग्रहमध्ये समायाति न वा इति प्रश्नोत्रोत्तरं-यदि मूर्छा भवति तदा परिग्रह एव अन्यथा तु न इति तत्त्वम् ।। ४५३ ॥ तथा स्थापना कियत्कालं तिष्ठतीति प्रश्नोऽत्रोत्तरं-स्थापना शास्त्रे द्विप्रकारा कथितास्ति-इत्वरा यावत्कथिका च, तत्र यावदुपयोगो | भवति तावदित्वरा, यावद्वस्तुविनाशो न भवति तावद्यावत्कथिका भवतीति ॥ ४५४ ॥ in Education na For Private & Personel Use Only Njainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy