SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ तथा–आरात्रिकनैवेद्यादिढौकनविधयः कस्मिन् पुरातनग्रन्थे सन्तीति प्रश्नोऽत्रोत्तरं-प्रवचनसारोद्धारवृत्तिश्राद्धविधिप्रमुखग्रन्थेषु पूजावसरे आरात्रिकोत्तारनैवेद्यढौकनादिविधयः प्रतिपादितास्सन्तीति ॥ ४३७ ॥ तथा-समवसरणस्थस्य तीर्थङ्करस्य श्राद्धा यतयश्च कथं वन्दन्ते इति प्रश्नोत्रोचर-समवसरणस्थस्य तीर्थकृतः श्राद्धा यतयश्च वन्दित्वा यथास्थाने निषिदन्तीति हारिभद्रयां, परं तद्वन्दनरीतिः क्वापि लिखिता नास्ति, तस्मादाधुनिकवन्दनरीतिरेव सम्भाव्यत इति ॥ ४३८ ॥ तथा-दिगम्बरादिप्रासादे आत्मीयाचार्यप्रतिष्ठितप्रतिमाऽस्ति सा वन्द्यते न वा इति प्रश्नोत्रोत्तरं-स एकान्ते वन्द्यते, परं तत्समुदायमध्ये वन्दनं कुर्वतस्तन्मतस्थिरीकरणं यथा न भवति तथा करोति द्रव्यक्षेत्रकालादिकं विचार्य इति ॥ ४३९ ॥ तथा-अष्टविंशतिदिनोपधाने पञ्चत्रिंशदिनोपधाने च मूलविधिना उद्यमाने कति दिनानि भवन्ति, तथा तदुपधानद्वयात्कतिदिनेषु न्यूनेषतार्यते इति प्रश्नोऽत्रोत्तरं-मूलविधिना तद्द्वये उह्यमाने दिनन्यूनाधिक्यं ज्ञातं नास्ति, तथा तदुपधाने न्यूनदिनेषु महत्कारणे सम्पूर्ण तपसि जाते उत्तारयन्तो दृश्यन्ते, परं दिनसङ्ख्या ज्ञाता नास्तीति ॥ ४४०॥ तथातीर्थे यन्नालिकेरादिद्रव्यं मानितं तदेव मुच्यतेऽन्यद्वा इति प्रश्नोऽत्रोत्तरं-शङ्गेश्वरादितीर्थे मूलविधिना यदेव मानितमभूत् तदेव | मुच्यते, कारणे तु यथा देयं न भवति तथा कर्त्तव्यमिति ॥ ४४१ ॥ तथा-'जीवंतसामिपडिमाइ, सासणं विभरिऊण भत्तीए' इत्यत्रार्यायां शासनशब्देन ग्रामोऽथवाऽन्योऽर्थः, तथाऽयमर्थः केषु मौलेषु ग्रन्थेषु वाऽस्तीति सम्यक् प्रसाद्य इति प्रश्नोऽत्रोत्तरं-अनेकार्थमूत्रवृत्तौ शासनशब्दस्यार्थपञ्चकं व्याख्यातं, तत्रैकोऽर्थो राजदेयभूमिलक्षणो ग्रामस्यापि Jain Educat onal For Private Personal Use Only w.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy