________________
सेनप्रश्ने ३ उल्लासः
तथा-केनचित् श्राद्धेन योजनशतादुपरि गमनप्रत्याख्यानं कृतं, तस्य धर्मार्थमाधिकं गन्तुं कल्पते नवा !, यदि गच्छति तदा केन | चन्द्रविज० विधिनेति प्रश्नोऽत्रोत्तरं-प्रत्याख्यानकरणसमये विवेको विलोक्यते, तेन प्रायो मुख्यवृत्त्या प्रत्याख्यानं सांसारिकारम्भस्य भवति, न तु धर्म
IN३९१-३९४
अमरच० कृत्यस्य, यदिच सामान्यतः कृतं तदा नियमितक्षेत्रोपरि यतनया गच्छति, तत्र च गतः सांसारिककृत्यं न करोतीति ॥ ३९३ ॥
|३९५-४०१ तथा-पषधकारिणः श्राद्धाः कियती भुवं यावद्यान्तीति प्रश्नोऽत्रोत्तर-पौषधकारिणः श्राद्धाः सिमित्यादिना धर्मार्थ यथेष्टं व्रजन्ति, || न चात्र भूभागनियम इति ॥ ३९४ ॥
अथ पण्डितअमरचन्द्रगणिकृतप्रश्नोत्तराणि । यथा- चन्दनवत्प्रतिमानां कस्तूरीलेपः क्रियते नवा इति प्रश्नोऽत्रोत्तरं-जिनप्रतिमानां कस्तूरीलेपो न कियत इत्यक्षराणि न सन्ति, प्रत्युत सामान्यतस्तत्करणाक्षराणि श्राद्धविध्यादौ सन्ति, यक्षकर्दममध्यगता तु कस्तूरी साम्प्रतमपि जिनार्चने व्यापार्यमाणा दृश्यत इति ॥३९५ ॥
तथा-सन्ध्याप्रतिक्रमणवत्प्रातःप्रतिक्रमणे श्राद्धानां प्रतिक्रमणसूत्रादेशो न दीयते तत्र को हेतुरिति प्रश्नोऽत्रोत्तरं-प्रातःप्रतिक्रमणं बाढस्वरेण न कर्तव्यमिति अगमीयारीतिः, श्रद्धानामादेश दानेतुते प्रतिक्रमणसूत्रश्रावणार्थ । बाढस्वरेण कथयन्तीति तद्विलोप: स्यादिति प्रातः प्रतिक्रमणादेशो न दीयतेति ॥ ३९६ ॥
तथा-श्राद्धानां गोत्रदेवीपूजने मिथ्यात्वं गति नवा इति, प्रश्नोऽत्रोत्तरं-यस्य तथाविधं धैर्य भवति तेन गोत्रदेवी न पूजनीया एव. कुमारपालेनेव, तदभावे तु कदाचित्तत्पूजनेऽप्युच्चारितसम्यक्त्वभङ्गो न भवति, यतो देवताभियोगेनेति सम्यक्त्वोच्चारे छिण्डिकाऽप्यस्तीति ॥३९७॥
For Private Personel Use Only
Hw.jainelibrary.org