________________
तथा - तीर्थकुद्दीयमाने दाने वरघोषणायां सत्यां श्रावको योषिच्च तद्दानं गृह्णीतो नवा इति प्रश्नोऽत्रोत्तरं तीर्थकुद्दानसमये ज्ञाताधर्मकथादिषु सनाथानाथपथिकका टिकादीनां याचकानां ग्रहणाधिकारो दृश्यते, न तु व्यवहारिणां तेन श्रावकोऽपि कश्विद्यदि याचकीभूय गृह्णाति तदा गृह्णातु, योषितस्तु प्रायस्तत्राधिकारो न दृश्यते इति ॥ ३८९ ॥
तथा - बलदेव १ कर्ण २ द्वीपायन ३ शंखा ४ ख्या आगमिष्यच्चतुर्विंशतौ तीर्थकृतो भविष्यन्ति, ते किं नवमराम १ कौंतेय २ द्वारकादाहक ३ श्रीवीरप्रथम श्रावका एव अथवा किमन्ये वा इति प्रश्नोऽत्रोत्तरं — शंखः श्री वीरप्रथम श्रावकादन्यस्तीर्थकृत् श्रीस्थानाङ्गवृत्तौ उक्तोऽस्ति द्वैपायनो द्वारिकादाहकोऽन्यो वा इति निर्णयः केवलिगम्यः, कृष्णभ्राता बलदेव आवश्यक नियुक्त्यादावागमिष्यच्चतुर्विंशतिकायां कृष्णतीर्थे सेत्स्यनुक्तोऽस्ति, तेन बलदेवः कश्चिन्नामान्तरेणावगन्तव्यः, कर्णस्थाने तु शास्त्रे कृष्णः प्रोक्तोऽस्ति, सोऽपि नामान्तरेण बोध्योऽत एव शास्त्रान्तरैः सह विसंवादं सम्भाव्य प्रवचनसारोद्धारवृत्तिकारेणापि द्वित्रा एव भावितीर्थकृज्जीवा व्यक्त्या विवृताः सन्ति, न शेषा इति ॥ ३९० ॥ अथ पण्डितचन्द्रविजयगणिकृतप्रश्नास्तदुत्तराणि च ।
यथा— तीर्थङ्करस्य सामान्य केवलिनो वा वीर्यान्तरायः सहगेव क्षयङ्गतः तत्कथं सामर्थ्य न्यूनाधिक्यं दृश्यत इति प्रश्नोऽत्रोत्तरं - तीर्थकृत्केवलिना सामान्यकेवलिनां च वीर्यान्तरायकर्मक्षयजनितस्यात्मवीर्यस्य समानत्वेऽपि नामकर्मभेदरूपशरीरलक्षणत्राह्योपकरणभेदाइले भेदः, अत एव सामान्यकेवलिशरीरेम्यस्तीर्थङ्करशरीरमनन्तबलवत्, जीर्णतुलादृष्टान्तोऽत्र भावनीय इति ॥ ३९१ ॥
तथा - श्री ज्ञातासूत्रप्रथमाध्ययने मेघकुमा रमातुर कालमेघदोहदः समुत्पन्न इत्युक्तं तत्कथं घटते, तदा वर्षकालस्य विद्यमानत्वादिति प्रश्नोऽत्रोत्तरं - ज्ञातासूत्रोक्त पञ्चवर्णाद्युपेतमेघस्य देवप्रभावसाध्यस्य वर्षास्वपि अकाल एवेति धारिण्या अकालमेघदोहदोत्पत्तिरुक्तेति ॥ ३९२ ॥
Jain Education rational
For Private & Personal Use Only
jainelibrary.org