________________
पिण्डनिर्युक्तेस्तु निर्युक्तत्वेनैव पिण्डैषणाध्ययनसूत्रात्पृथगविवक्षया, प्रश्नोत्तरसमुच्चये त्वोघनिर्युक्तेः छुटक पत्र लिखितानुसारेण विभिन्नविषयत्वात् पृथग्गणनं, पिण्डनिर्युक्तेस्तु पृथगविवक्षैवेति सर्वमवदातम् ॥। ३१३ ।।
तथा - "तिपयाहिणापुरस्सर महावीरजिणेसरं गणहरे अ । [ श्रेणिकः ] पणिवइऊण जहरिहं ईसाणादिसाए निवेसेइ " ॥ १ ॥ इति शीलभावनासूत्रवृत्त्युक्तगाथाया अर्थानुसारेण यथा श्रीमहावीर जिनस्य प्रदक्षिणात्रिकं प्रदातव्यं, तथा गणधराणामपि पृथग् प्रदातव्यं न वा इति प्रश्नोऽत्रोत्तरं - तीर्थकर प्रदक्षिणा त्रयं कुर्व्वतो गणधराणामपि तत्रयं सहैव भवतीति ज्ञायते ॥ ३१४ ॥
तथा —— केचन वृद्धशालिका इत्थं वदन्ति ' इरिआकुसुमिणुसग्गो' इति गाथाद्वयोक्त विधिद्वयं मार्गादिकारणे श्रद्धालुर्न करोति तयुक्तमयुक्तं वा इति प्रश्नोऽत्रोत्तरं मार्गादिकारणे विधिद्वयसत्यापनं युक्तमेवेति || ३१५ ॥
तथा - प्रतिष्ठायां प्रतिमाया नेत्रोन्मीलकेऽञ्जने मधु क्षिप्यते न वा इति प्रश्नोऽत्रोत्तरं साम्प्रतं प्रतिष्ठायामञ्जने मधुशब्देन शर्कराऽभिधीयत इति सैव प्रक्षिप्यते ॥ ३१६ ॥
अथ पण्डितजयवन्तर्षिगणिकृतप्रश्नौ तदुत्तरे च,
यथा - चतुर्मासकमध्ये विजयदशमीं यावत् खण्डाविहरणं कथं न शुद्ध्यतीति प्रश्नोऽत्रोत्तरं - परम्परया खण्डाविहरणं निषिध्यते इति ॥ ३१७ ॥ तथा - प्रतिक्रमणमध्ये विद्युत्प्रदीपादिप्रकाशः शरीरे लगति तदाऽग्निकाय विराधना मन्यते तत्तपाकृतग्रन्थेऽस्त्यन्यत्र वा इति प्रश्नोत्रोत्तरं - आवश्यकनियुक्ति कायोत्सर्गाध्ययने "अगणीउ छिंदिज्ज व, बोहिअ खोभा य दीहडको वा । आगारेहिं अभग्गो उस
Jain Education International
For Private & Personal Use Only
ww.jainelibrary.org