________________
सेनप्रभे ३ उल्लासः
॥ ८० ॥
राईं उभओ पासेसु उद्घटिआ ॥ १ ॥” इति शीलभावनासूत्रवृत्त्युक्तगाथायां तु सौधम्र्मेशानसुरखराः प्रोक्ता दृश्यन्ते, तेन उभयेषां मध्ये किं प्रमाणं इति प्रश्नोऽत्रोत्तरं - शीलभावनाग्रन्थोऽत्र हस्तप्राप्यो नास्तीति ॥ ३०८ ॥
तथा - तीर्थकृद्वयाख्यानं श्राद्धय ऊर्ध्वस्थिताः शृण्वन्ति इत्यक्षराणि कुत्र सन्तीति प्रश्नोऽत्रोत्तरं - आचाराङ्गवृत्तौ स्त्रिय ऊर्ध्वंस्थिताः शृण्वन्तीत्युक्तमस्तीति ॥ ३०९ ॥
तथा -- श्राद्धय इव देव्योऽपि ऊर्ध्वस्था एवं व्याख्यानं शृण्वन्त्युतासीना इति प्रश्नोत्तरं - आवश्यकत्तौ देव्य ऊर्ध्वे स्थिताः शृण्वन्तीत्युक्तमस्तीति ॥ ३१० ॥
तथा - पाश्चात्यरात्रौ साधुसमीपे समागत्य यत् श्राद्धाः प्रतिक्रमणं कुर्व्वाणा दृश्यन्ते, तस्याक्षराणि कुत्र ग्रन्थे सन्तीति प्रश्नोऽत्रोत्तरंसामाचार्यनुसारेण यथा पौषधकरणाय पाश्चात्यरात्रौ साधुसमीपसमागमनं दृश्यते तथा प्रतिक्रमणकृतेऽपि तद् युक्तिमद् ज्ञायत इति ॥ ३११ ॥
तथा - घटिकाद्वयादिशेष रात्रिसमये पौषधं करोति कश्चित् कश्चिच्च वस्त्राङ्गप्रतिलेखनां कृत्वा तत्करोति, तयोर्मध्ये कः शास्त्रोक्त विधिरिति प्रश्नोऽत्रोत्तरं पाश्चात्यरात्रौ पौषधकाले पौषधविधानमिति मौलो विधिः, कालातिक्रमे तद्विधानं त्वापवादिकमिति ॥ २१२ ॥
तथा - " आवस्य ओहनिज्जुत्ति १ पिंडनिज्जुत्ति २ उत्तरायणे ३ । दसकालिअं ४ चउरोवि, मूलगंथे सरेमि सया " ॥ १ ॥ इति श्री कुलमण्डनसूरिकृतप्राकृत सिद्धान्तस्तवगाथा, एतस्यां च मूलग्रन्याश्चत्वार एते प्रोक्ताः सन्ति, श्रीहीरविजयसूरि प्रसादितप्रश्नोत्तर समुच्चयग्रन्थे च कश्चिद्भेदो दृश्यते, तत्कथं इति प्रश्नोऽत्रोत्तरं-उक्तगाथायामोघनिर्युक्ते र्निर्युक्तित्वेनावश्यक नियुक्त्यन्तर्भूतत्वान्न पृथग् विवक्षा,
Jain Education International
For Private & Personal Use Only
धनहर्ष० २६३-३१६
॥ ८० ॥
www.jainelibrary.org