SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ तथा-यद्दिनतः प्रारम्य शैवा माघस्नानं कुर्वते तद्दिनत एवारभ्य केचन श्राद्धा अपि स्वगृहे उष्णोदकादिना स्नात्वा जिनधाम्नि गत्वा जिनपूजां कुर्वन्ति, मासप्रान्ते जिनभक्त्यथै रात्रिजागरणं मोदकादिलम्भनिकामपि कुर्वते, माघस्नानमिदमुच्यते, तत्करणे च मिथ्यात्वं स्यादि| त्युक्त्वा केचन एतत्कृत्यं निषेधयन्तः सन्ति, तत्प्रमाणमप्रमाणं वा इति, प्रश्नोत्रोत्तरं-माघमासं यावदुष्णोदकादिना स्नानकरणं पूजाकरणं तत्प्रान्ते रात्रिजागरणं लम्भनिकादिकरणं च न युक्तिमत्प्रतिभाति, प्रसङ्गदोषादिभयादनाचीर्णत्वादिति ॥ ३०४ ॥ तथा--मोहनीयकर्मणोऽष्टाविंशति २८ अष्टमा निरन्तरं कर्तुमारब्धाः सन्ति, तदन्तराले चोच्चरितपञ्चमीरोहिण्यादिकमागतं तदा | | तैरेवाष्टमैः सरति किं वा पञ्चम्यादेरुपवस्त्रं पृथकर्षणीयमिति प्रश्नोऽत्रोत्तरं-मोहनीयकर्मसत्केषु निरन्तरमष्टमेषु क्रियमाणेषु उच्चरितपञ्चम्यादितपो यावन्मुक्तं तावत्सति सामर्थे पश्चात्करोति, स्थानकपदगणनसामर्थ्याभावे तु तदऽकरणेऽपि सरति ॥ ३०५ ॥ ___ तथा-पदगणनं एकवारदेववन्दनं वा विस्मृतं द्वितीयदिने पारणातः प्राक् तत्करोति यदि तदा शुद्धयति न वा इति, प्रश्नोत्रोत्तर| प्रथमदिने विस्मृतं पदगणनं एकशो देववन्दनं वा द्वितीयदिने पारणकरणादर्वाग् अवधिपूर्त्यादिमहत्कारणं विना न शुद्धयति, क्रियमाणं तु दृश्यत इति ॥ ३०६ ॥ तथा-पञ्चम्यां प्रतिमायां कच्छाटिकावालनं निषिद्धमस्ति, तदाश्रित्य कश्चिद्वक्ति-रात्रौ चतुर्दिक्षु कायोत्सर्गे एव कच्छाटिका न वालनीया, | अन्यदा सर्वकालं कच्छाटिका वालनीयैव, तदाश्रित्य कथमस्तीति प्रश्नोत्रोत्तरं-पञ्चमीप्रतिमातोऽबद्धकच्छ इत्येव ग्रन्थे दृष्टमस्तीति कायोत्सकाले एव कच्छाटिका मोच्येति यो वक्ति स एव प्रष्टव्यः-एवंविधान्यक्षराणि क्व सन्तीति ॥ ३०७॥ तथा-समवसरणस्तोत्रे यक्षवराश्चामराणि वीजयन्तः प्रोक्तास्सन्ति “करकलिअकयणदंडा सोहम्मीसाण सुरवरा ताव । ढालिंति चाम JainEducatil For Private Personel Use Only
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy