________________
सेनप्रभे ३ उल्लासः ॥ ७९ ॥
Jain Education
कृत्काले भिन्नभिन्नप्रमाण देहधारिणो भवन्ति तेन पारापतादयः किंकालीना ग्राह्या इति प्रश्नोत्रोत्तरं तेजस्कायिकप्रभृतिशरीर मानप्रतिपादकं गाथाद्वयं यद्यपि महाग्रन्थे न दृश्यते, तथापि सूत्रेण सह सम्मतमेव तदर्थस्य सूत्रानुयायित्वात् । तथा जीवमानप्रतिपाद कपारापतादिप्रमाणमवस्थितकालत्वेन महाविदेहगतं ज्ञायत इति, मुग्धबोधनार्थश्वायमुपदेश इति न काऽप्यनुपपत्तिरिति ॥ २९९ ॥
तथा - नाममालायां षष्ठे पुनः षोडशाब्दायुको हस्तसमुच्छ्रयाः ' इत्युक्तमस्ति, लघुक्षेत्रसमासे तु 'पंचमसमछट्ठारे, दुकरुच्चा वीसवरिसआउ नरा' इत्यस्ति, तेनैतत्कथं सङ्गच्छते इति प्रश्नोऽत्रोत्तरं नाममालायां मानं यदुक्तं तत्पष्ठारकप्रान्तमाश्रित्य लघुक्षेत्र समासे तु षष्ठारकस्यादिदिनमाश्रित्येति बोध्यम् ॥ १०० ॥
तथा - तेषु त्रिष्वारकेषु यथाक्रमं नराणां त्रियेकदिनैस्तुवरी कणव दामलकमात्रमाहार इत्युक्तमस्ति लघुक्षेत्रसमासे, तुवरीकणादयश्चारकेऽरके पृथक्पृथक्प्रमाणास्तेन किमरक वर्त्तिनस्तुवरी कणादयोऽत्र ग्राह्या इति प्रश्नोऽत्रोत्तरं तत्तदरकसम्भवितवरीकणादिप्रमाणमाहारस्य ज्ञेयम् ॥ १०१ ॥
तथा—' मज्झण्हाओ परओ, जाव दिवसस्स अंतोमुहुत्तो ताव धिप्पड़' इति सामाचारीमध्ये विद्यते, तेन तृतीययामादर्वाक् मध्या| ह्वात्परतः रात्रिपौषधः कर्त्तुं कल्पते न वा इति प्रश्नोऽत्रोत्तरं - मध्याह्नात्परतः पौषधग्रहणं शुद्धयति परं साम्प्रतीनप्रवृत्त्या प्रतिलेखनात् अं न कार्यते, किन्तु परत इति ॥ ३०२ ॥
तथा - शनैश्वरादीनां राशिपरावर्त्तदिनमिदमिति ज्ञात्वा ये जिनपूजाऽऽचाम्लादिकं कुर्व्वते तेषां सम्यक्त्वं म्लानं भवति नवा इति प्रश्नोत्रोत्तरं शनैश्वरराशिपरावृत्तिदिने विशेषतपः पूजादिकरणे सम्यक्त्वम्लानिर्ज्ञाता नास्तीति ॥ ३०३ ॥
Bional
For Private & Personal Use Only
धनहर्ष ० २६३-३१६
11198 11
www.jainelibrary.org