________________
तथा-आर्दै नालिकेरे शुष्क वा कियन्तो जीवाः सन्ति, तथा नालिकेरबीयके सङ्ख्याता असङ्ख्याता अनन्ता वा कियन्तो जीवाः सन्ति ? | यतस्तमत्र केचिदनन्तजीवात्मकं प्रतिपादयन्तीति प्रश्नोत्रोत्तरं-बीयके सम्बद्धे नालिकेरे एक एव जीव इति ॥ २९५ ॥
तथा-शृङ्गाटके शुष्क आद्रे च कियन्तो जीवाः सन्तीति प्रश्नोऽत्रोत्तरं-शृङ्गाटकफले शुष्के आर्द्र वा जीवद्वयं प्रेक्तमस्तीति ॥ २९६ ॥
तथा-आउलिनामा वनस्पतिविशेषः किं सङ्ख्यातजीवोऽसङ्ख्यात नीवोऽनन्तजीवो वा ? कुत्र च प्रोक्तोऽस्तीति प्रश्नोत्रोत्तरं-आउलिसत्कमूलादौ असङ्ख्याता जीवाः, पत्रादौ तु एकैको जीव इति प्रज्ञापनादौ प्रोक्तमस्तीति ॥ २९७ ॥
तथा-हस्तत्रयादारभ्य उत्सेधाङ्गुरेन यावत् षड्डस्तप्रमाणदेहधारिणां तद्भवे मोक्षो भवेन्न वेति प्रश्नोऽत्रोत्तरं-उत्सेधाङ्गुलेन हस्तद्वयाIN दारभ्य साधिकपञ्चधनुःशतानि यावत् शरीरधारिणो जीवा मुक्तिं गच्छन्तीति ॥ २९८ ॥
तथा-" अद्दामलगपमाणे, पुढवीकाए हवंति जे जीवा । ते पारेवयमित्ता, जंबुद्दीवे न मायति ॥ १॥ एगमि उदगबिंदुमि, जे जीवा जिणवरोहिं पन्नत्ता । ते जइ सरसवमित्ता, जंबुद्दीवे न मायंति ॥ २॥" एतद्गाथाद्वयं प्रतिक्रमणसूत्रवृत्तिप्रवचनसारोद्धारसूत्रवृत्त्यादौ यथा दृश्यते तथा तेजस्कायप्रभृत्येकेन्द्रियाणां जीवमानप्रतिपादिका गाथाः प्रायो ग्रन्थे न दृश्यन्ते, तत्कथं ?, किञ्च वरहिकातन्दुलप्रमाणमात्रे तेजस्काये ये जीवास्ते यदि मस्तकलिक्षाप्रमाणदेहधारिणो भवेयुस्तदा ते जम्बूद्वीपे न मान्ति, निवपत्रस्पृष्टमात्रे वायौ ये जीवाः सन्ति ते यदि खसखसप्रमाणदेहा भवेयुस्तदा जम्बूद्वीपे न मान्ति, अयमर्थः प्रमाणमप्रमाणं वा!, किञ्च-एतदर्थप्रतिपादके यादृश्यौ तादृश्यौ छुटितपत्रे गाथे अपि स्तः, तद्यथा'बरटीतंदुलमित्ता, तेऊजीवा जिणेहिं पन्नत्ता । मत्थयलिक्खपमाणा, जंबुद्दीवे न मायंति ॥ १॥ जे लींवपत्तफरिसा, वाऊनीवा जिणेहिं पन्नत्ता । ते जइ खसखसमित्ता, जंबूद्दीवे न मायति ॥ २॥" किञ्च पृथिवीकाया दिनीवप्रमाणप्रतिपादिकायां गाथायां पारापतादये। ये प्रोक्तास्ते च तत्तत्तीर्थ
Join Education International
For Private Personal use only