SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ सेनप्रभे ३ उल्लासः 11 12 11 Jain Education चातिरुक्ष इत्यग्निव्यवच्छेद इत्युक्तमस्ति, अत्र च प्रथमारके तृतीयारके च बादरानिनिषेधो भणितो न द्वितीयारके, तेन द्वितीयारकेऽग्निर्भवति नवा ? किश्च सुषमादुपमायामन्त्रानिनिषेधः प्रोक्तः, ' अगणिस्स य उट्टाणं ' इत्यादिना चाग्निसम्भवः प्रोचे, तदेतत्कथं सङ्गच्छते ?, किञ्चोत्सर्पिण्यां द्वितीयारके कियति गते बादरोऽग्निरुत्पत्स्यते ? कियति गते च तस्मिन् नीतिप्रवृत्तिः तत्प्रवर्त्तकश्च को भविष्यतीति प्रश्नोऽत्रोत्तरं प्रज्ञापनेत्यत्र प्रज्ञापनापुस्तकपाठानुसारेण प्रथमद्वितीयतृतीयारकेषु कालस्यातिस्निग्धता प्रोक्ताऽस्तीति का शङ्का तथा तृतीयारकेऽतिस्निग्धतायामुक्तायामपि तत्प्रान्ते ' अगणिस्स य उट्ठाणं' इत्यादि भणनं तु अल्पस्याविवक्षणान्न बाधाविधायि, तथोत्सपिण्या द्वितीयारकस्यादौ पुष्करसंवर्त्तादिपञ्चमेघवर्षणे बादरवनस्पतिप्रादुर्भवने बिलनिर्गतमनुष्यमासादिनिवृत्तिरूपा नीतिर्विहिता ग्रामादिनिवेशाश्चादिग्रहणादन्यादिसम्भवे पाकादिनिवर्त्तनं च प्राग् जातजातिस्मरणात्प्रथमकुलकरा द्विमलवाहनाद्दितीयारकस्य प्रान्ते प्रवृत्तमिति हैमवीरचरित्रे प्रोक्तमस्ति ॥ २९२ ॥ तथा - प्रज्ञापनाद्वितीयपदे द्वीन्द्रियादीनां पर्याप्तापर्याप्तानां स्थानप्रश्नाऽधिकारे 'उड्ढटोए तदेकदेसभागे ' इत्यत्र उर्ध्वलोके तदेकदेशभागे मन्दरादिवाप्यादिषु द्वीन्द्रियादयः शङ्खादयः प्रोक्तास्सन्ति, "एगिंदिअ पंचिदिअ, उड्ढे अ अहे अ तिरिअलोए अ विगलिंदिअजीवा पुण, तिरिअलोए मुणेअव्वा ॥ १ ॥ ” एतस्यां च गाथायां तिर्यग्लोके विकलेन्द्रिया ज्ञातव्या इत्युक्तमस्ति, तत्कथं ? इति प्रश्नोऽत्रोत्तरं - 'एगिंदि पंचिदिअ ' इति गाथायां यत्तिर्यग्लो के एव विकलेन्द्रियप्रतिपादनं तद्बाहुल्यमाश्रित्य ज्ञेयम् ॥ २९३ ॥ तथा — प्रथमपदे आशालिकाऽधिकारे 'अंतोमुहुत्तद्धाउआ ' इति पाठो दृश्यते, वृत्तौ च अद्धेति पदं व्याख्यानं वोपलभ्यते तेन सूत्रेऽधिकं वृत्तौ न्यूनं वेति प्रश्नोऽत्रोत्तरं - सूत्रेऽद्धापदं समस्ति वृत्तौ तदव्याख्यानं तु सुकरत्वान्न कृतमिति बोध्यम् ॥ २९४ ॥ For Private & Personal Use Only धनहर्ष ० २६३-३१६ ॥ ७८ ॥ www.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy