SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Jain Edu त्तत्वेनोक्तानि तेनोत्पत्तिस्थाने तानि सच्चित्तानि, तन्निर्गतानि चाचित्तानीति बहुश्रुताः, ये च सर्व्वदा तेषां सच्चित्तत्वं वदन्ति तेषां श्राद्धघादिहस्तेन विहरणाद्यप्रसङ्गः ॥ २८९ ॥ तथा - “ जायमयसू अगाईनिच्छूढा ” इत्यादिसूतकशब्दः प्रत्येकं सम्बद्ध्यते, जातकसूतकं नाम जन्मानन्तरं दशाहानि यावत् मृतसूतकं मृतानन्तरं दश दिवसान् यावत्तत्र यद्वयै तद्विधा' लोग ' त्ति लौकिकं ' उत्तर ' त्ति लोकोत्तरं, लौकिकं द्विधा - इत्वरं यावत्कथिकं च, तत्रेत्वरं यत्सूतकमृतकादि, तथाहि लोके सूतकादि दश दिवसान् यावद्वर्ण्यत इति यावत्कथिकं च वरुडछिम्पकचर्मकारडोम्बादि, एतान्यक्षराणि व्यवहारसूत्रवृत्तौ सन्तीत्युक्त्वा सूतकगृहं दशदिवसान् यावत्खरतरास्त्यजन्तः सन्ति, प्रश्नोत्तरग्रन्थे तु दशदिननिर्बन्धो ज्ञातो नास्ति इत्युक्तमस्ति, तत्कथमिति ! प्रश्नोऽत्रोत्तरं - व्यवहारसूत्रवृत्तौ सूतकविषये यद्दशदिनवर्जनं तद्देशविशेषपरत्वेन, ततो यत्र देशे सूतकविषये यावानवधिस्तावन्ति दिनानि वर्जनीयानि, तेन प्रश्नोत्तरग्रन्थेन सह न कोऽपि विरोध इति ॥ २९० ॥ तथा - प्रवचनसारोद्धारस्य तृतीयशतकस्य त्रयस्त्रिंशत्तमगाथाया 'संगरिगामि अप्पडिए ' एतत्पदव्याख्याने श्री आणन्दसूरिणा -सह| रिकादौ अपतिते पतिते तु द्विदलदोषसम्भवान्न कल्पते घोलादि इत्युक्तमस्ति, एतदुक्तिबलात् सांगरिफलं बब्बूलफलमपि द्विदलत्वेन खरतरैरम्युपगम्यते, आनन्दसूरिश्व वडगच्छीयः श्रूयते, तेन तदुक्तं कथमात्मनां प्रमाणं नास्तीति ! प्रश्नोऽत्रोत्तरं - आनन्दसूरिकृतग्रन्थस्तु अथ यावद् दृष्टो नास्ति, तेन तद्दर्शने तद्विषयो विचारो युक्तिमान्नान्यथेति ॥ २९१ ॥ तथा - प्रज्ञापनाद्वितीयपदे बादराग्नरधिकारे ' वाघायं पहुच पञ्चसु महाविदेहेसु ' एतत्पदव्याख्याने व्याघातो नामातिस्निग्धोऽतिरूक्षो वा काल:, तस्मिन्सति अग्निव्यवच्छेदात्, ततो यदा पञ्चसु भरतेषु पञ्चस्वैश्वतेषु सुषमसुषमा सुषमदुष्षमा वर्त्तते तदाऽतिस्निग्धः कालो दुष्पमदुष्षमाय temational For Private & Personal Use Only www.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy