________________
सेनप्रभे
३ उल्लासः
॥ ७७ ॥
Jain Education fall
तथा - जिनसमवसरणे सङ्ख्याताः सुरा मान्त्य सङ्ख्याता वा इति ? प्रश्नोऽत्रोत्तरं - जिनसमवसरणेऽसङ्ख्याताः सुरनरादयो मान्तीति योगशास्त्रवृत्तौ प्रोक्तमस्ति, न च तत्र काप्यनुपपत्तिः, यच्च नाममालादौ क्वापि कोटाकोटिरुक्ता, तद्विशेषाऽविवक्षयेत्यवसीयते इति ॥ २८५ ॥ तथा— सांवत्सरिकप्रतिक्रमणकायोत्सर्गे ४० चत्वारिंशलोकोद्योतकरान् कथयित्वा तत्प्रान्ते एको नमस्कारो वक्तव्यः पश्चात् कायोत्सर्गः पारणीयः कश्चिदिति वक्ति, कश्चिच्च प्रान्ते नमस्कारं वक्तव्यं न ब्रूते, तेन किं प्रमाणमिति ! प्रश्नोऽत्रोत्तरं - सांवत्सरिकप्रतिक्रमणे सनमस्कारश्चत्वारिंशल्ल| कोद्योतकरकायोत्सर्गः प्रतिक्रमणहेतुगर्भादावुक्तोऽस्ति, पारम्पर्येणापि तथैव क्रियत इति ॥ २८६ ॥
यथा -- सागारिके सति रजोहरणेन पदोः प्रमार्जनं प्रमार्जनाऽसंयम इत्युक्तमस्ति, तत्र को हेतुरिति प्रश्नोऽत्रोत्तरं - अपरिणतलोकोपहासादिहेतुरवसेय इति ॥ २८७ ॥
तथा — अर्हदादिविंशति २० पदाराधनं यश्चतुर्थतपसा करोति, स तद्ध्येयपदगणनमुपवासदिने कुर्याद्दिनत्रयेऽपि वा इति प्रश्नोऽत्रोत्तरंयश्चतुर्थतपसा स्थानकाराधनं करोति स यदि पृथक् पृथक् चतुर्थान् करोति तदा त्रिष्वपि दिनेषु ध्येयपदं गणयति, समुदितचतुर्थकरणे तु यथासम्भवमिति बोध्यम् ॥ २८८ ॥
तथा - इहैके सत्त्वाः पूर्वं नानाविधयोनिकाः स्वकृतकर्मवशगास्त्रसस्थावरशरीरेषु सचित्ताऽचित्तेषु पृथ्वीकायत्वेनोत्पद्यन्ते, यथा शिरःसु मणयः करिदन्तेषु मौक्तिकानि विकलेन्द्रियेष्वपि शुक्त्यादिषु मौक्तिकानि स्थावरेष्वपि पारकरादिषु जीवा लवणभावेनोत्पद्यन्ते, एतान्यक्षराणि सूत्रकृदङ्गन्दीपिकायां सन्तीत्युक्त्वा मौक्तिकानि सचित्तानि खरतराः कथयन्तः सन्ति, प्रश्नोत्तरग्रन्थे तु अचित्तानि तानि भवन्तीत्युक्तमस्ति, तत्कथमिति प्रश्नोऽत्रोत्तरं — सूत्रकृदङ्गदीपिकादौ मौक्तिकानि यद्यपि सचित्तत्वेनोत्पद्यन्ते इत्युक्तमस्ति, तथापि तान्यनुयोगद्वारादौ अचि -
For Private & Personal Use Only
धनहर्ष० २६३-३१६
॥७७॥
jainelibrary.org