________________
प्रतिक्रमणहेतुगर्भवालावबोधे लिखितमस्ति, लघुपतिक्रमणहेतुग में भगवच्छब्देन चत्वारोऽर्थाः प्रोक्ताः सन्ति, तेन भगवच्छब्देन किमत्र वाच्यमिति प्रश्नोत्रोत्तर-भगवच्छब्देन पारम्पर्येण धर्माचार्यः श्रूयते, यच्च प्रतिक्रमणहेतुगर्भबालावबोधे ' च्यारे खमासमणे अरिहंतादिक वांदइ' इत्युक्तमस्ति तत्र स बालावबोधः केन कृत इति ज्ञापनीयं तद्नु ज्ञास्यत इति ॥ २८१ ॥
तथा-जिनमन्दिरे मूलनायकस्य दृष्टिारशाखायाः कियत्तमे मागे समानेया ! विवेकविलासादौ कथमस्तीति प्रश्नोत्रोत्तरं-यदुक्तं | विवेकविलासे-" द्वारशाखाष्टभिर्भागैरधः पक्षाद्विधीयते । मुक्त्वाऽष्टमं विभागं च, यो भागः सप्तमः पुनः ॥ १॥ तस्यापि सप्तमे भागे, गजांश
स्तत्र सम्भवेत् । प्रासादप्रतिमादृष्टिनियोज्या तत्र शिल्पिमिः ॥ २ ॥ अष्टभागीकृताया द्वारशाखायाः यः सप्तमो भागः सोऽप्यष्टभागीक्रियते तस्य | सप्तमे भागे प्रतिमादृष्टिरानीयत इत्यवसेयमिति ॥ २८२ ॥
तथा—जिनमन्दिरे भ्रमन्त्या देहरी इत्यपरपर्याया देवकुलिकास्त्रयोविंशतिश्चतुर्विशतिर्वा कार्याः, मूलनायकेन सह चतुर्विशतिर्जायते तेन त्रयोविंशतिरेव तत्र कार्या इति कश्चित्तेन किमत्र प्रमाणमिति प्रश्नोऽत्रोत्तरं-मूलनायकाल्पृथक् चतुर्विशतिर्देवकुलिकाः क्रियन्ते इत्यत्रत्याः सूत्रधारा वदन्तीति ॥ २८३ ॥ - तथा-चतुर्निकायदेवानामेकैका कोटिरिति चतस्रः कोट्यस्तीर्थकृत्पार्श्वे जघन्यतो भवन्ति समुदिताना एका कोटिरिति वा कथमस्तीति प्रसाद्यं ? चतुष्कोट्यक्षराणि वीतरागस्तववृत्तौ सन्तीति कश्चिद्वक्ति तत्प्रमाणं न वा इति प्रश्नोत्रोत्तरं-चतुर्निकायदेवानां समुदितानां कोटिआयते, नाममालादौ तथोक्तेः, यत्र च प्रतिदेवनिकायं कोटिरुक्ताऽस्ति सा का वीतरागस्तववृत्तिः केन च कृतेति ज्ञापनीयं ततो ज्ञास्यत इति ॥ २८४॥
For Private Personal use only
Nainelibrary.org