________________
वा
सेनप्रनेसह दीक्षासमयग्रहणे ३० त्रिंशद्वर्षीय इति जम्बूस्वामिनि सत्येव प्रभवस्वामिनः स्वगभाक्त्वं सम्पनीपोत, तेनैतत् पढ्दावलीगतं लेख्यकं |
धनहर्ष० ३ उल्लास कथं मिलतीति प्रश्नोऽत्रोत्तरं-श्रीजम्बूस्वामिदीक्षानन्तरं कियद्भिर्वर्षेः श्रीप्रभवस्वामिनो दीक्षा सम्भाव्यते, तथा च सति न कोऽपि विरोधो,
२६३-३१६ ॥७६॥
यदुक्तं परिशिष्टपणि -" पञ्चमः श्रीगणधरोप्येवमभ्यर्थितस्तदा । तस्मै सपरिवाराय, ददौ दीक्षां यथाविधि ॥ १ ॥ पितृनापृच्छय चान्येयुः , प्रभवोऽपि समागतः । जम्बूकुमारमनुयान्, परिव्रज्यामुपाददे ॥ २॥" २७८ ।।
तथा-आकाशप्रदेशपरमाण्वोः कतमः सूक्ष्म इति प्रश्नोऽत्रोचरं-प्रदेशापेक्षया द्वयोस्तुल्यत्वमेव, विभागाभावात् , अवगाहनापेक्षया त्वेकस्मिन्नप्याकाशप्रदेशेऽनन्ताः परमाणवोऽवगाहन्त इति विशेषो भावनीयः ॥ २७९ ॥
तथा-प्रवचनसारोद्धारवृत्त्यादौ इन्द्रियविषयप्रमाणता आत्माङ्गुन्लेन प्रोक्ताऽस्ति, चक्षुष उस्कृष्टविषयतायां कृतलक्षयोजनरूपो विष्णुकुमारो दृष्टान्तः प्रोक्तोऽस्ति, तथाहि-चक्षुः सातिरेकयोजनलक्षाद्रूपं गृह्णाति, सातिरेकत्वं तु विष्णुकुमारादयः स्वपदपुरःस्थितं गादिकं तन्मध्यगतं च लेष्ट्रादिकं पश्यन्तीति नवतत्त्वमहावचूर्णावस्ति, इति चक्षुषः सातिरेकलक्षयोजनदूरस्थरूपग्रहणविषये दृष्टान्तकरणाद्विष्णुकुमारविकुवितरूपमात्माङलेन सम्भाव्यते, अन्यथा न दृष्टान्तसङ्गतिरित्येवं सति प्रश्नोत्तरसमुच्चयचतुर्थप्रकाशप्रान्ते यद्विष्णुकुमारविकुक्तिरूपमुत्सेधाङ्गुलनिष्पन्नलक्षयोजनप्रमाणमुक्तमस्ति तत्कथमिति प्रश्नोत्रोत्तरं-विष्णुकुमारकृतं सातिरेकलक्षयोजनप्रमाणरूपं चमरेन्द्रादिवत्प्रमाणाङ्गुलेनापि सम्भवतीति न कापि विप्रतिपत्तिः, यच्च प्रश्नोत्तरे उत्सेधाङ्गुलेन प्रोक्तमस्ति तत्र किञ्चिद्विधेयमस्तीति ॥ २८ ॥
Lon७६॥ तथा इच्छामि खमा समणो० भगवन् हं आचार्याहं इत्यादि ४ चतुःक्षमाश्रमणानां प्रथमक्षमाश्रमणे भगवन् अत्र भगवच्छब्देन किं वाच्य ? कश्चित्सुधर्मस्वामिनं वक्ति, कश्चिच मण्डलीस्वामिनं गीतार्थ वक्ति, काश्चत्तु तीर्थङ्करं ब्रूते 'च्यारे खमासमणे अरिहन्तादिक वांदइ । इति |
For Private & Personal Use Only
Jain Educationlinepal
Jainelibrary.org