SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Jain Educatio तथा - सरुजः पुंसो यन्त्रिविधाहारनिषेधरूपं सागारिकमनशनं कार्यते तदुच्चारविधिः कथं इति प्रश्नोऽत्रोत्तरं - पूर्व विवक्षितवेलाकृतत्रिविधाहारचतुर्विधा हारप्रत्याख्यानस्य पुंसः ' जइ मे हुज्ज पमाओ' इति गाथोच्चारपूर्व्वकं सागारिकमनशनं कार्यत इति ॥ २७२ ॥ तथा - सूक्ष्मनिगोदान्निर्गतो जीवः पुनः सूक्ष्मनिगोदमध्ये याति नवा इति प्रश्नोऽत्रोत्तरं - सूक्ष्मनिगोदान्निर्गतो जीवः पुनरपि सूक्ष्मनिगोदे यातीति ॥ २७३ ॥ तथा - उपाश्रये समागच्छन् मुस्कलः श्राद्धः निसीहीति तस्मान्निर्गच्छंश्च आवस्तहीति वक्ति नवा इति प्रश्नोऽत्रोत्तरं — मुत्कलः श्राद्धः निसीहीति वक्ति न त्वावश्यकीति ॥ २७४ ॥ तथा — जिनमन्दिरान्निर्गच्छद्भिः साधुभिः श्राद्धैश्च आवस्सहीति वक्तव्यं नवा इति प्रश्नोऽत्रोत्तरम् - आवरसहीति साधुभिर्वक्तव्यं न तु श्राद्धैरिति ॥ २७५ ॥ तथा - अणिमाद्या अष्टौ महासिद्धयः कस्यां लब्धावन्तं भर्वन्ति, महात्रतिनां अणुत्रतिनां मिथ्यादृशां वा ताः सम्भवन्ति नवा इति प्रश्नोऽत्रोत्तरम् - अणिमादयो वैक्रिय लब्धावन्तर्भवन्ति ताश्चासम्यग्यदृशां सम्यग्दृशां वा सम्भवन्तीति ॥ २७६ ॥ तथा - श्रीवीरतीर्थङ्करे देशनां दत्त्वा देवच्छन्दान्तः प्राप्ते सति एकादशगणधरमध्याद् ज्येष्ठत्वाद्गौतम एव धर्मदेशनां ददाति, पट्टधारित्वेन स्थापितत्वात् सुधर्म्मस्वामी वा ? अन्यो वा यः कश्चिद्गणधरो वा इति प्रश्नोऽत्रोत्तरं — दीक्षया ज्येष्ठत्वात्सति गौतमस्वामिनि गौतमस्वाम्येव धर्मदेशनां विधत्ते, असति च तस्मिन्नन्योऽपि यो ज्येष्ठो भवति स विधत्ते इति ॥ २७७ ॥ तथा — श्री जम्बूप्रभवस्वामिम्यां सार्द्धं तपस्या गृहीता, श्रीजम्बूस्वामिनश्च सर्व्वायुरशीतिर्वर्षाणि, श्रीप्रभवस्वामिनस्तु सर्व्वयुः पञ्चाशीतिर्वर्षाणि, ational For Private & Personal Use Only www.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy