________________
___ तथा-वन्दनकनियुक्तौ देविंद राय' इत्यादिगाथायां गिहवइसागारिशब्दयोर्लघुवृत्तौ व्याख्यानं नास्ति, बृहद्वृत्तौ किं व्याख्यानमस्ति नवा इति प्रश्नोऽत्रोत्तरं-बृहद्वत्तौ तद्व्याख्यानं नास्ति, परं भगवतीषोडशशतकद्वितीयोद्देशकवृत्तौ गृहपतिशब्देन माण्डलिको राजा सागारिकशब्देन च सामान्यगृहस्थश्च प्रोक्तोऽस्तीति ॥ २६१ ॥
तथा-किरणावल्यां दशमस्वप्नाधिकारे ' विवुहेहिं अलंकितो'त्ति पाठः, आवश्यकवृत्तौ तु अन्यत् , तत्किरणावल्यां कुतस्तल्लिखनमिति व्यक्त्या प्रसाद्यमिति प्रश्नोऽत्रोत्तरं-आवश्यकबृहद्वृत्तौ 'पउमसरो विउधपकतो' इति पाठोऽस्ति, तस्याऽर्थो विबुधपङ्कजं पद्मसरः, तथा किरणावल्यां — विबुहेहिं अलंकितो 'त्ति पाठः कल्पचूर्णितः कुतश्चिदन्तर्वाच्यतो वा लिखितो भविष्यतीति सम्भाव्यते इति ॥ २६२ ॥
__ अथ पण्डितधनहर्षगणिकृतप्रश्नास्तदुत्तराणि च । यथा-सुधर्मसुरत्वपदव्यपेक्षया यथा ईशानसुरत्वपदवी अधिका, तथा भुवनपतिज्योतिष्कव्यन्तराणामन्योऽन्यं का पदवी न्यूना का | लाच अधिकेति प्रश्नोत्रोत्तरं-व्यन्तरज्योतिष्कभवनपतीनां यथोत्तरं बाहुल्येन महर्दिकत्वमिति पदव्यधिकताऽपि तथैवेति ॥ २६३ ॥
तथा–गङ्गादिनदीजलं यथा लवणाब्धौ विश्राम्यति, तथा मानुषोत्तरपर्वतसम्मुखविनिर्गतनदीजलमपि कुत्र विश्राम्यतीति प्रश्नोऽत्रोत्तरंमानुषोत्तराभिमुखनिर्गतनदीजलं पुष्करवरसमुद्रे विश्राम्यतीति स्थानाङ्गादावस्तीति ॥ २६४ ॥
तथा-अष्टोत्तरीयस्नात्रे क्रियमाणे कृतधौतिकाः श्राद्धा जघन्यत उत्कृष्टतश्च कियन्तो मृग्यन्ते इति, प्रश्नोत्रोत्तरं-जघन्यतोऽष्टी श्राद्धाः कृतधौतिकास्तिष्ठन्ति, उत्कर्षतस्तु यथेच्छमिति ॥ २६५॥
Join Educa
For Private Personel Use Only
thaww.jainelibrary.org