SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ | सिद्ध इति भगवत्येकादशशतैकादशोदेशकादावुक्तं, तथा सति श्रीविमलनाथश्रीवीरयोः श्रीकल्पमूत्रादिग्रन्थे महदन्तरं दृश्यते तत्कथमिति प्रश्नोत्रोत्तरं-भगवतीवृत्तौ द्वितीयव्याख्याने प्रपौत्रके शिष्यसन्ताने इत्युक्तमस्ति, तेन कल्पसूत्रोक्तकालमानमाश्रित्य न काऽप्यनुपपत्तिरिति ॥२५३॥ तथा नन्दीवृत्तौ ५३ पत्रे खित्तोगाहण' गाथाविचारे बुद्धद्वारे सर्वस्तोकाः स्वयम्बुद्धसिद्धास्तेभ्योऽपि प्रत्येकबुद्धसिद्धाः सयेय| गुणास्तेभ्योऽपि बुद्धिबोधितसिद्धाः सङ्ख्येयगुणास्तत्कथं ? यतो बुद्धिबोधितानां केवलश्राद्धसभाग्रे व्याख्यानस्य दशवैकालिकवृत्त्यादौ निषेध| दर्शनादिति प्रश्नोऽत्रोत्तरं-बुद्धिशब्देन तीर्थकर्यः सामान्यसाध्व्यश्चोच्यन्ते, तत्र तीर्थकरीणामुपदेशे विचार एव नास्ति, सामान्यसाध्वीनां तु यद्यपि केवलश्राद्धानां पुरस्तादुपदेशनिषेधः, तथापि श्राद्धीमिश्रितानां कारणे केवलानां च पुरस्तादुपदेशः सम्भवत्यपीति न काप्यनुपपत्तिरिति ॥ २५४ ॥ तथा-" काऊण सामईयं इरिअं पडिक्कमिय गमणमालोए । वंदित्तु सूरिमाई, सज्झायावस्सयं कुणई " ॥ १॥ श्राद्धदिनकृत्य-15 १३१ गाथायाः कोऽर्थ इति प्रश्नोऽत्रोत्तर--गाथाया अर्थो वृत्तौ सुप्रसिद्ध एव, यत्तु सूत्रपाठमात्रेण सामायिकानन्तरमैर्यापथिकीप्रतिक्रमणं प्रतिभाति तत्र सविस्तराण्यावश्यकचूर्ण्यक्षराण्यनुसरणीयानि, येन संशयापनोदो भवति, सर्वेषामेवंविधपाठानां तन्मूलकत्वादिति ज्ञायते ॥ २५५ ॥ तथा--मूत्रकृदङ्गप्रथमश्रुतस्कन्धचतुर्थाध्ययनवृत्तौ " छिन्नपा जस्कन्धाश्छिन्नकोष्ठनासिकाः । छिन्नतालुशिरोमेण्दा, भिन्नाक्षि| हृदयोदराः ॥ १॥" इत्युक्तं, तत्र नारकाणां नपुंसकत्वे छिन्नमेण्डा इति कथमिति प्रश्नोत्रोत्तरं--नारकाणां नपुंसकत्वेऽपि मेण्डूसत्ता न विरुध्यते, ' महिलासहावो सर वण्णभेओ, मिदं महंत मउआ य वाणी' इत्यादिलक्षणस्य पुष्पमालादावुक्तत्वादिति ॥ २५६ ॥ तथा-हैमपद्मचरित्रे रामकेवलिवचनाच्चतुर्थनरकस्थरावणशम्बुकाभ्यां युध्यमानं परमाधार्मिककर्थितं लक्ष्मणं दृष्ट्वा सीतेन्द्रस्तत्र गत्वा Jain Educatar For Private & Personel Use Only Www.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy