________________
सेनमभे
३ उल्लासः ॥ ७३ ॥
प्रश्नोऽत्रोत्तरं - क्रियावादिनामक्रियावादिनां च केषाञ्चित्सकामनिर्जराऽपि भवतीत्यवसीयते, यतोऽकामनिर्जरावतामुत्कर्षतो व्यन्तरेष्वेव बालतपस्विनां चरकादीनां तु ब्रह्मलोकं यावदुपपातः प्रथमोपाङ्गादावुक्तोस्तीति, तदनुसारेण पूर्वोक्तानां सकामनिर्जरेति तत्त्वम् ॥ २४८ ॥
तथा ——कृतसामायिकस्य श्राद्धस्य अपारितेऽपि सामायिके सल्लग्नसामायिकानि कियन्ति कृतानि शुद्धयन्तीति प्रश्नोत्रोत्तरं - एतावन्ति सामायिकानि संलग्नानि कृतानि शुद्धयन्तीति एवंविधाक्षराणि शास्त्रे दृष्टानि न स्मृतिपथमायान्ति, यदि च मनः स्थाने तिष्ठति तदा यथेच्छं सामायिकानि कर्त्तव्यानि परं द्वितीयादिसामायिकेषु स्वाध्यायादेशमार्गणं न सम्भाव्यत इति वृद्धवादः, परं सामायिकात्सामायिकान्तरकरणं शरीरचिन्ताद्युपयोगं विधायैवेति ॥ २४९ ॥
तथा—' तस्स णं अज्जगस्स नत्तए होत्था इट्ठे कंते ' इति, राजप्रश्नीयोपाङ्ग प्रदेशी आर्यकनप्तृक उक्तः, श्राद्धविधिवृत्तौ तु आर्यकपुत्रः कथं प्रोक्त इति, मनोऽत्रोत्तरं पुत्रपुत्रोऽप्यतीववल्लभत्वात्पुत्रत्वेन लेोकैर्व्यवह्रियते तेनात्रापि नप्तृशब्दः पुत्रत्वेन व्यवहृतः सम्भाव्यते ॥ २५० ॥ तथा - शलाकापुरुषा गार्हस्थ्ये पिशिताशनं कुर्व्वन्ति नवेति प्रश्नोऽत्रोत्तरं - तीर्थकृतां पिशिताशनं सर्व्वथा न भवति, अन्येषामपि प्रायो न भवतीति ज्ञायते ॥ २५१ ॥
तथा -- “ पिण मोटा अवगुण सांभलो, जिम निशिभोजनकरतां टलो, जीव हणइ जे भव छन्नवई, तेह पाप एक सरसों सवि " ॥ १ ॥ इत्यादि बहूक्तं रात्रिभोजनचतुष्पद्य, तत्किं मान्यं नवा इति प्रश्नोऽत्रोत्तरं — केवलिनिषिद्धत्वेन अनेकजन्तुघातहेतुत्वेन च तद्वर्जनीयमेव, यत्तु चतुप्पद्यामुक्तं तत्त लौकिकं वर्त्तते, तदप्यनर्थवाक्यरूपतया कथञ्चित् मान्यमेवेति ॥ २५२ ॥
तथा-श्रीविमलनाथप्रपौत्र श्रीधर्मघोषस्थविरपार्श्वे प्रव्रज्य महाबलकुमारः पञ्चमकल्पे दशाब्धिस्थितिमनुपाल्यानन्तरं श्रीवीरपार्श्वे प्रव्रज्य
Jain Education International
For Private & Personal Use Only
किर्तिविज० | २३३-२६२
॥ ७३ ॥
www.jainelibrary.org