________________
गणे पंचसया' इत्युक्तं तत्कथमिति प्रश्नोत्रोत्तरं-उपदेशमालावृत्तौ प्रव्रज्याधिकारे पञ्चशतपरिकरितत्वमुक्तं, ऋषिमण्डले तु निर्वाणाधिकारे एकोनपञ्चशतत्वमिति न कश्चिद्विरोध इति ॥ २४३ ॥
तथा–ज्ञाताधर्मकथाङ्गप्रथमाध्ययने श्रेणिकराजस्य धारिण्या देव्या एक एव मेघकुमारनामा पुत्रः प्रोक्तः, अनुत्तरौपपातिके तु जालिकुमारप्रमुखाः सप्त सुता उक्तास्तत्कथमिति, प्रश्नोत्रोत्तरं-श्रेणिकस्य सा धारिणी अन्याऽथवा तस्या एव धारिण्या जालिप्रमुखाः सप्त पुत्रा मेघकुमारप्रवज्यातः पश्चाज्जाता इति सम्भाव्यते ॥ २४४ ॥
तथा-'उम्मुकभूसणंगो' इत्याद्यक्षरानुसारेण पौषधमध्ये श्राद्धानामाभरणमोचनमुक्तमस्ति, साम्प्रतं तु ते परिदधति, तत्कथमिति, प्रश्नोत्रोत्तरं-उत्सर्गमार्गेण यदि सर्वतः पौषध प्रतिपद्यते, तदा तन्मोचनमेव युक्तं, विभूषालोभादिनिमित्तत्वेन, सामायिके तयोरपि निषिद्धत्वात, | यदि देशतः करोति तदा तत्परिधानमपि भवतीति ॥ २४५ ॥
तथा-लम्बुत्तरदोषः श्राद्धानां लगति नवा इति, प्रश्नोऽत्रोत्तरं-एकोनविंशतिदोषाधिकारे लम्बुत्तरदोषप्रतिषेधः कृतो नास्ति, तथाप्य- | | विच्छिन्नपरम्परयौचित्येन च लम्बुत्तरदोषनिवारणं न दृश्यते इति ॥ २४६ ॥
तथा–प्रतिष्ठाधिकारे साधूनां वासक्षेपाक्षराणि क्व सन्ति ? यदि च सन्ति तदा प्रतिष्ठावत्प्रतिदिनं ते वासक्षेपपूजां कथं न कुर्वन्तीति | प्रश्नोऽत्रोत्तरं-पश्चचत्वारिंशदागमानां मध्ये आवश्यकबृहद्वृत्तौ गणधरपदप्रतिष्ठाधिकारे साधूनां वासक्षेपाक्षराणि सन्ति, प्रतिदिन वासक्षेपपूजाक्षराणि तु साधूनां कुत्रापि न सन्तीति तद्विधानं कुतस्त्यमिति ॥ २४७॥
तथा-क्रियावादिनामक्रियावादिनां च मिथ्यादृशां सकामनिर्जरा भवति नवा ! यदि सकामनिर्जरा तर्हि ग्रन्थाक्षराणि प्रसाद्य नीति
For Private Personel Use Only