________________
तथा प्रस्थापितस्वाध्यायद्वयकृतकालद्वयानुष्ठानकृतकालमण्डलद्वयप्रतिक्रान्तवैरात्रिककालस्य स्थण्डिलादिगमने प्रहरातिकमे वाऽवशिष्टाऽनष्ठानं सन्ध्यायां कल्पते नवेति प्रश्नोऽत्रोत्तरं-प्रभाते सकलक्रियाकरणाऽशक्ती स्वाध्यायद्वयं प्रस्थाप्य कालद्वयक्रियां करोति, तद्नु एकं कालमण्डलं विधायक स्वाध्यायं प्रस्थापयति तद्नु द्वितीयं कालमण्डलं कृत्वा वैरात्रिककालं प्रतिकामति, तदा सन्ध्यायामवशिष्टानुष्ठानं कर्तु कल्पते, नान्यथेति योगविधावुक्तमस्ति ॥ २३४ ॥ | तथा-योगशास्त्रतृतीयप्रकाशवृत्तौ 'शुचिः पुष्पामिषस्तोत्रैर्देवमभ्यर्च्य वेश्मनि ' इति १२२ श्लोकव्याख्याने पूर्व गण्डूषादिकं कृत्वा पश्चात्प्रत्याख्यानं प्रोक्तमस्ति तत्किमिति प्रश्नोऽत्रोत्तर-योगशास्त्रे शुचिभवनप्रकारो लोकप्रसिद्धोऽनुवादपरतया प्रोक्तोऽस्ति, नत्वयं विधेय
तयेति प्रत्याख्यानवतां गण्डूषकरणं विनाऽपि देवपूजा शुद्धयतीति न कश्चिद्विरोधः ॥ २३५ ॥ । तथा-" सामाइअपुत्व मिच्छामिठाउकाउसग्गमिच्चाई, सुत्तं भणिअ पलंबिअभुअकुप्पर धरिअपरिहरण ओ" ॥ १॥ इति बृहत्मतिक्रम
पहेतुगर्भगाथामाश्रित्य केचन मतिनः प्रश्नयन्ति-यत् श्रीमन्तः कटिदवरकबन्धनं कुर्वन्ति, तत्कुत्र शास्त्रे प्रोक्तमस्तीति ? प्रश्नोऽत्रोत्तरं-आवश्यकवृत्तिधर्मरत्नप्रकरणवृत्त्यादौ श्रीआर्यरक्षितसूरिभिः स्वपितुः कटीदवरको बन्धित इति प्रोक्तमस्ति, तेन तदाचरणया साम्प्रतमपि बध्यत इति वृद्धवादः ॥ २३६ ॥
तथा-प्रथमोपाङ्गे कूणिकवर्णके माउपिउसुजाए ' एतत्सूत्रवृत्तौ पित्रोविनीततया सुपुत्र इत्युक्तं तत्किमिति, प्रश्नोत्रोत्तरं-कणिकः पित्रोविनीत एवास्ति, यत्त्वन्तराले श्रेणिकस्य किञ्चिद्विरूपमाचरितं तन्निदानवशादेव, कथमन्यथा पितृमरणशोकाकुलितो राजगृहं विहाय चम्पाया. मुषित इति ॥ २३७ ॥
JainEducaस
For Private
Personel Use Only
Paw.jainelibrary.org