________________
सेनप्रश्ने
॥७२॥
कस्मिन्पदे स्थिता इति प्रश्नोत्रोत्तरं-यथा नेमिचरित्रे तथावश्यकवृत्त्यादावपि सर्वेषां साधूनां द्वादशाव-वन्दनकमुक्तमस्ति, सर्वशब्देन किर्तिविजा N चाष्टादशसहस्रसङ्ख्या समागतैवेति काऽऽरेका ?, किञ्च सर्वेषामिति पदं विवक्षितसर्चपरं, तेन पदस्थानामेव वन्दनकप्रदानं सम्भाव्यते, पदस्थेष्वपि N|२३३-२६९ ये गुरुनिकटस्थास्ते कथं तद्दापयन्तीति विचारेण सर्व समञ्जसमेवेति ॥ २३१॥
तथा-श्रीकल्पसूत्रे श्रीनेमेश्चत्वारिंशत्सहस्राण्यार्या उक्तास्सन्ति, नेमिचरित्रे त्वेवं "विना च कनकवती, रोहिणी देवकी तथा । पन्योऽपि प्राजन् स्वामिसन्निधौ सकला अपि " ॥१॥ वसुदेवहिण्ड्यामपि द्वासप्ततिसहस्राण्यपि वसुदेवपल्यः श्रीनेमिपार्श्वे प्रव्रज्य मोक्ष गताः, अन्या अपि सहस्रशः कृष्णादिपल्यः श्रीनेमिपार्श्वे प्रव्रजितास्सन्तीति कथं सङ्गच्छते !, तथा सर्वेषामपि तीर्थकृतां श्राद्धश्राद्धीसाधुसाध्वीसंख्या कल्पसूत्रोक्ताऽपि सन्देहमावहतीति प्रश्नोऽत्रोत्तर---तीर्थकृतां पार्श्वे यैः सम्यक्त्वलाभपूर्वकं देशविरत्यादि प्रतिपन्नं त एव तीर्थकृत्परिवारमध्ये गणनीया नान्ये इति न कोऽपि शङ्कावकाश इति ॥ २३२॥
___ अथ पण्डितकीर्तिविजयगणिकृतप्रश्नास्तदुत्तराणि च । यथा–केचन जीवा इलिकागत्या भवान्तरं यान्ति, केचन कन्दुकगत्या, तत्र कि निदानमिति प्रश्नोत्रोत्तरं-ये जीवा देशतो | मारणान्तिकसमुद्घातं कुर्वन्ति ते इलिकागत्या भवान्तरं यान्ति, ये च सर्वतो मारणान्तिकसमुद्घातं कुर्वन्ति ते कन्दुकगत्या भवान्तरं यान्तीति श्रीभगवत्यां प्रोक्तमस्ति ॥ २३३॥
१ पाठस्तावदेव-यदा मारणान्तिकसमुद्घातगतो म्रियते तदेलिकागत्योत्पत्तिदेशं प्राप्नोति, तत्र च जीवदेशस्तत्रोत्पत्तिदेशे प्राप्तत्वात् देशेन समवहन्तीत्युच्यते।। | यदा तु मारणान्तिकसमुद्घातात्प्रतिनिवृत्तः सन् म्रियते तदा सर्वप्रदेशसंहरणतो गेन्दुकगत्योत्पत्तिदेशं प्राप्तः सर्वेण समवहत इत्युच्यते श. १५-३६
JainEducation interi
For Private
Personal Use Only
H
ainelibrary.org