SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ तथा—-अष्टम्यां प्रतिमायां स्वयमारम्भकरणनिषेधोऽस्ति तत्र सचित्तपुष्पादिभिः पूजां करोति नवेति प्रश्नोऽत्रोत्तरं - सचित्तपुष्पादिभिः पूजां न करोतीति ॥ २२६ ॥ तथा --- अशोधितपट्टावल्यां चित्रावालगच्छीयाः श्रीदेवभद्रोपाध्याया इत्युक्तमस्ति शोधितायां तु अस्यां चैत्रगच्छीया इति तत्र को हेतुरिति प्रश्नोऽत्रोत्तरं - श्रीमुनिसुन्दर सूरिकृतगुर्व्वावल्यां चैत्रगच्छीया इत्युक्तमस्ति, तेन शोधितायां तथैव लिखितमस्ति, कुत्रचित्तु चित्रावालगच्छीया इत्यपि दृश्यते, परं तदपि चैत्रगच्छस्य नामान्तरमिति सम्भाव्यते ॥ २२७ ॥ तथा - ' अड्डाइज्जेसु दीवसमुद्देसु ' त्तिपाठे ' अक्खयायार' इति ' अक्खयायार ' इति वा पाठः कथ्यते इति प्रश्नोत्रोत्तरं - अक्खुयायार इति पाठ आर्षत्वात् श्रीतातपादैर। दिष्टोऽस्तीत्यसावेव पठनीय इति ॥ २२८ ॥ तथा - श्रीस्थूलभद्रस्य यतित्वे वेश्यागृहस्थितिः सा सिद्धान्तोक्ता नवा ? यदि सिद्धान्तोक्ता स सिद्धान्तो नामग्राहं प्रसाद्य इति प्रश्नोऽत्रोत्तरं - नन्दी सूत्रे पारिणामिक्यां बुध्धौ स्थूलभद्रः कार्मिक्यां तु वेश्या सारथिश्व उदाहरणतयोक्तास्सन्ति एतदर्थप्रतिपादने स्थूलभद्रस्य यतित्वेऽपि वेश्यागृहेऽवस्थानमुक्तमस्तीति ॥ २२९ ॥ तथा - श्री हैमनेमिचरित्रे कृष्णजरासङ्घयुध्धाधिकारे जरामोचनशङ्खश्वरपार्श्वनाथानयनाधिकारः कथं नोक्तः सोऽधिकारः शास्त्रीयो नेवेति प्रश्नोऽत्रोत्तरं - तीर्थकल्पादौ सोऽधिकारोऽस्तीति शास्त्रीय एवेति ॥ २३० ॥ तथा - नेमिचरित्रे सर्व्वसाधूनां द्वादशावर्त्तवन्दनं कृष्णो ददौ इत्युक्तमस्ति, न त्वष्टादश सहस्राणामिति तद्बुक्तिर्लोकिको शास्त्रीया वेति, यदि शास्त्रीया तदा कथं तदुपपत्ति: पर्यट्टिआणं च तइयं तु ' इति वचनात् सर्व्वेषां च पदस्थत्वाभावात्, यदि सर्वेषां पदस्थत्वं तदा ते Jain Education International " For Private & Personal Use Only ॐ www.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy