________________
कुअराविजः
सेनप्रश्ने ३गलासः
२१५
चारित्रोद २१६-२३
तथा-यावज्जीवं रात्रौ चतुर्विधाहारप्रत्याख्यानवतः स्त्रीसेवने भङ्गोऽभङ्गो वेति ! प्रश्नोत्रोत्तरं-स्त्रीसेवने ओष्ठचुम्बने सति प्रत्याख्यानभङ्गो भवति, नान्यथेति श्राद्धविधिवचनादिति ॥ २२० ।
तथा-देशावकशिकं पौषधस्थाने क्रियते, तत्र कः क्रियाविधिः, तथा देशावकाशिकमध्ये पूजास्नात्रादिकं सामायिकं च कर्तु कल्पते नवेति ! प्रश्नोऽत्रोत्तरं-देशावकाशिके ' देसावगासि उवभोगपरिभोगं पच्चक्खामी ' त्याद्यवोच्चारविधिः तथा स्वचिन्तितानुसारेण पूजास्नात्रादिकं सामायिक | च क्रियते, न कश्चिदेकान्त इति ॥ २२१ ॥
तथा-यथात्र मरते मेरुदिशि ध्रुवो वर्त्तते तथा महाविदेहेष्वैरवते च सोऽस्ति नवा ! तथा जम्बूद्वीपे कति ध्रुवास्सन्तीति ? प्रश्नोऽत्रोत्तरंभरतवदन्यत्रापि ध्रुवाः सम्भाव्यन्ते, परमेतत्प्रतिपादकान्यक्षराणि तु दृष्टानि न स्मरन्तीति ॥ २२२ ॥
तथा-अष्टाशीतिग्रहाणां सर्वतारकाणां च मण्डलानि कति सन्तीति प्रश्नोऽत्रोत्तरं-यथा चन्द्रसूर्ययोर्मण्डलानां सयादिविचारः शास्त्रे a उपलभ्यते, न तथा परग्रहाणामपि, तथा तारकाणां मण्डलान्यवस्थितान्येव भवन्ति, न तु चन्द्रसूर्यमण्डलवदनियतानीति ॥ २२३ ॥
तथा-दीपालिकादिपर्वणि सुखभक्षिकादिकरणे मिथ्यात्वमारम्भो वेति प्रश्नोत्रोत्तर-आरम्भो लगतीति ज्ञातमस्ति, न तु मिथ्यात्वमिति ॥ २२४ ॥
तथा-श्राद्धविधावशनादिचतुष्काधिकारे स्त्रियास्सम्भोगे चतुर्विधाहारो न भज्यते, बालादीनामोष्ठादिचुम्बने तु भज्यते, द्विवाहारे तदपि कल्पते, अत्र प्रथमस्थाने मुखसङ्गमेऽपीतिपदं नास्ति, तर्हि पृच्छतां श्राद्धानामग्रे मुखसङ्गमे त्रिचतुर्विधाहारप्रत्याख्यानयोर्भङ्गोऽभङ्गो वे (वा कथनीय इ) | ति ! प्रश्नोऽत्रोत्तरं-बालादीनामित्यत्रादिशब्दात्स्त्रिया अपि मुखसङ्गमे भज्यत इति ज्ञायते ॥ २२५ ॥
॥७०॥
Jain Education For
For Private & Personel Use Only
Mainelibrary.org