________________
अथ पण्डितकुअरविजयगणिकृतप्रश्नस्तदुत्तरं च । __ यथा-मुक्ताफलानि सचित्तान्यचित्तानि वा ? पृथ्वीकायदलान्यप्कायदलानि वेति ? प्रश्नोत्रोत्तरं-मुक्ताफलान्यचित्तानि, पृथ्वीकायरूपाणि च भवन्तीति ॥ २१५ ॥
अथ पण्डितचारित्रोदयगणिकृतप्रश्नास्तदुत्तराणि च । ___ यथा-शाम्बप्रद्युम्नश्रवणौ सार्दाष्टकोटिभिस्साधुमिस्सह सिद्धाशिखरिण सिद्धि प्राप्तौ, तन्नाम्ना साधुद्वयं तु रैवतगिरौ दृश्यते, तथा चैक्यं | स्यादित्येतन्निर्णयः प्रसाद्य इति ? प्रश्नोऽत्रोत्तरं-साख्रष्टकोटिभिः सह तौ शत्रुञ्जये सिद्धि प्रापतुः, यत्तु रैवताचले तन्नाम्ना शिखरद्वयं दृश्यते तत्तु कायोत्सर्गकरणादिनाऽपि भवत्येवेति ॥ २१६ ॥
तथा जिनालये क्षेत्रपालप्रतिमाया मानने पूजने सिन्दूरचटापने च सम्यक्त्वस्य दृषणं लगति नवेति प्रश्नोऽत्रोत्तर-क्षेत्रपालप्रतिमायाः क्षेत्ररक्षाकरत्वेन सिन्दूरतैलचढापने दूषणं न लगति, मानने तु सम्यक्त्वस्य दूषणं लगति ॥ २१ ॥
तथा-श्रीकल्पसूत्रे 'पंचहत्थुत्तरे होत्था' इति हस्तोत्तरासु जन्म कथं सम्भवति ! यतो यस्मिन्नक्षत्रे उत्पद्यते तस्मात्रयोदशे जन्म भवतीति प्रश्नोऽत्रोत्तरं-यस्मिन्नुत्पद्यते तस्मात्रयोदशे नक्षत्रे जन्म भवतीत्येवंविधो नियमो ज्ञातो नास्तीति ॥ २१८ ॥
तथा-पौषधपारणानन्तरं स्त्रीसेवनेन पौषधस्य दूषणं लगति नवेति ! प्रश्नोऽत्रोत्तर-पौषधस्य दूषणं न लगति, परं पद्धतिथिविराधना || | भवतीति ॥ २१९॥
Jain Educati
o
nal
For Private & Personal Use Only
jainelibrary.org