SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ तथा--विंशतिस्थानादिषु देववन्दनं मुखवस्त्रिकां विना घटते नवेति, प्रश्नोऽत्रोत्तरं-मुख्यवृत्त्या मुखवस्त्रिका विना देववन्दनं न घटते ॥२०॥ तथा-राजप्रश्नीयोपाङ्गे मिलुगानाम पावसमणा परिवसन्ती' त्यत्र श्रवणशब्दस्य कोऽर्थ इति, प्रश्नोऽत्रोत्तरं-श्रवणशब्देन पाखण्डिविशेषो ज्ञायते ॥ २०४॥ । तथा–केचन श्राद्धाः पुरा नमस्कारस्तोत्रावचूरिगतपञ्चपदानामानुप गुणनं कुर्वन्त आसन्, तेषां च कैश्चिदुपाध्यायैः कैश्चित्पाण्डितैश्च | निषेधितमस्ति, प्ररूपितं च-नेदं गुणनं सार्वत्रिक किंतु कारणे सत्येव गण्यते, मन्त्रादिवत् , खण्डितनमस्कारगुणने चास्ति दूषणमपीत्यत्रार्थे परम| गुरूणां वचः प्रमाणमिति प्रश्नोऽत्रोत्तरं-नमस्कारानुपूर्वीगणनं पञ्चपद्या नवपद्या वा क्रियते, श्राविध्यादावुक्तत्वात् , नात्र कश्चिद्विचार इति । यदुक्तं | श्रीमहानिशीथतृतीयाध्ययने से भयवं ! जहुत्तविणओवहाणेणं पंचमंगलमहासुअक्खंधमहिजित्ता णं पुवाणुपुवीए पच्छाणुपुवीए अणाणुपुवीए सरवंजणनाव परिचिों काऊण'मिति, तथा योगशास्त्राष्टमप्रकाशादौ एकेनापि वर्णेन स्मरणस्योक्तत्वादिति नात्र कश्चिद्विचार इति ॥२०॥ ___ अथ पण्डितकान्हर्षिगणिकृतप्रश्नास्तदुत्तराणि च । यथा-उपधानवाहिश्राद्धश्राद्धीनां कल्पदिनपञ्चकमध्ये उत्तरितुं न कल्पते नवेति ! प्रश्नोऽत्रोत्तरं-महत्कारणं विना उत्तरितुं न कल्पते, यदि च तथाविधकारणे उत्तरति तदारम्भवजनं करोतीति । २०६॥ तथा पारणादिने वाचना कल्पते नवेति ? प्रश्नोत्रोत्तरं-पारणादिनेऽपि वाचना कल्पत इति ज्ञातमस्तीति ॥ २० ॥ तथा—पारणादिनानन्तरमुत्तरितुं कल्पते नवेति ? प्रश्नोऽत्रोत्तरं-न कल्पते इति ॥ २०८ ॥ Eatonem For Private Personel Use Only
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy