________________
सेनप्र
३ उल्लासः
॥ ६८ ॥
तथा -- चतुरिकुलैर्देवा भूमिं न स्पृशन्तीति यदुच्यते तत्कुत्र स्थल इति प्रसाद्यमिति प्रश्नोऽत्रोत्तरं - महीतले कुत्रापि न स्पृशन्तीति संग्रहणीवृत्त्याद्यभिप्राय: ॥ १९७ ॥
तथा - इदानीं भरते मनुजानां तिरश्चां च जातिस्मरणमस्ति न वा ? यदि नास्ति तदा कुतो न्यवच्छिन्नं ! तथाऽवधिज्ञानमपीदानीमस्ति नवेत्यपि च प्रसाद्यमिति ? प्रश्नोऽत्रोत्तरं वर्त्तमानकाले जातिस्मरणस्यावधिज्ञानस्य च व्यवच्छेदः शास्त्रे प्रतिपादितो नास्तीति ॥ १९८ ॥
तथा -- त्रयोदश चतुर्द्दशगुणस्थानयोर्द्विचरमसमयं यावत् पट्संहननसत्ता केन हेतुना ? यतो मोक्षगमनमाद्येनैव भवतीति प्रश्नोऽत्रोत्तरंयद्यपि मोक्षगमनमायेनैव भवति तथापि प्राक्तन संहननानां सत्तासद्भावे को विचार इति ॥ १९९ ॥
अथ पण्डितविद्याविजयगणिकृतप्रश्नास्तदुत्तराणि च ।
यथा-चैत्राश्विनाऽस्वाध्यायदिनेषु यत्तपः कृतं स्यात्तत्तपो रोहिण्या टोचनादिषु समेति नवेति प्रश्नोऽत्रोत्तरं - सप्तम्यादिदिनत्रयकृतं तप आलोचनायां न गण्यते, रोहिण्यादितथाविधसम्बद्धतपास तु गण्यते, न तु सर्व्वत्रेति ॥ २०० ॥
तथा - सूतकगृहं साधव आहारार्थं यान्ति नवेति प्रश्नोत्तरं यत्र देशे सूतकगृहे यावद्भिर्वासरैर्ब्राह्मणादयो भिक्षार्थं त्रजन्ति तत्रात्मभिरपि तथा विधेयमिति वृद्धव्यवहारः ॥ २०१ ॥
तथा — छट्ठभत्तिए अट्टमभत्तं वड्ढित्ता कोडुम्बिअपुरिसे सहावे इत्यत्र छुट्टभत्तिए इति का विभक्तिरस्तीति प्रश्नोऽत्रोत्तरंछट्टभत्तिए इति प्रथमान्तपदं ज्ञायते ॥ २०२ ॥
Jain Educationtional
For Private & Personal Use Only
पद्मानन्द १८०-२०५
॥ ६८ ॥
v.jainelibrary.org