________________
Jain Educate
चत्वारि क्षमाश्रमणान्युक्तानि सन्ति, एवं तु न क्रियते, तत्कि बीजमिति प्रश्नोऽत्रोत्तरं — यतिदिनचर्यादौ स्वाध्यायादनु चत्वारि क्षमाश्रमणानि प्रोक्तानि श्राद्धदिनकृत्यवृत्तिवन्दारुवृत्त्यादौ तु स्वाध्यायादनु प्रतिक्रमणस्थापनमुक्तं, ततस्तानि स्वाध्यायात्पूर्वे ज्ञायन्ते, अयं च विधिः परम्परया बाहुल्येन क्रियमाणोऽस्ति, सामाचारीविशेषेण चोभयथापि अविरुद्धमेवेति ॥ ९९२ ॥
तथा - द्रव्यलिङ्गिनो द्रव्यं जिनप्रासादे प्रतिमायां वा जीवदयायां वा ज्ञानकोशे वा कुत्र कुत्र व्यापार्यते इति प्रश्नोऽत्रोत्तरं द्रव्य| लिङ्गिनो द्रव्यं जिनानां प्रासादे प्रतिमायां च नोपयोगि, जीवदयायां ज्ञानकोशे चोपयोगीति ज्ञातमस्ति ॥ १९३ ॥
तथा - चक्रवर्त्तिपाण्डवप्रमुखाणां देवैर्विभूषणादिकं प्रदत्तमस्ति तत्किं स्वकोशसत्कं वा स्वोत्पादितं वा ? यदि स्वकोशसत्कं स्यात् तदा कथं कीलिकाविघटनादिकं दृश्यते, शाश्वतवस्तुनो विघटनाभावाद्, यदि स्वकृतं तदा कथं तत्र तेषामस्माकमिदं सारवस्त्वित्युक्तिरिति प्रश्नोऽत्रोत्तरं - चक्रवर्त्तिप्रमुखाणां देवैर्यदाभरणादिकं दीयते तदौदारिकपुद्गलैर्निष्पादितं, अथवा कस्यचित्सत्कं पुरातनमपि सम्भाव्यते द्वारिकानगरीवदिति ॥ १९४ ॥
तथा - पौषधिकश्राद्धाः सायं काजकोद्धरणानन्तरं उपधिमुखपोतिकादेशं मार्गयन्ति, प्रातस्तु प्रागेव, तथा पौषधशालाप्रमार्जन वसतिप्रमार्ज्जनादेशमपि सायमेव, तत्र किं बीजमिति प्रश्नोऽत्रोत्तरं प्रायः सामाचाय्र्येव बीजमिति ॥ १९५ ॥
तथा — विंशतिविहरमाणजिनानां तन्मातापितॄणां च नामानि कुत्र सन्तीति प्रश्नोऽत्रोत्तरं - विंशतेरपि विहरमाणजिनानां तन्मातापितॄणां च नामानि छूटकपत्रे स्तोत्रादौ च सन्तीति ज्ञेयं ॥ १९६ ॥
ational
For Private & Personal Use Only
w.jainelibrary.org