________________
पद्मानन्द |१८०-२०५
सेनप्रश्ने
तथा-सेचनकहस्तिना प्रच्छन्ना खातिका कथं ज्ञातेति प्रश्नोत्रोत्तरं-हैमवीरचरित्रे सेचनकहस्तिना विपङ्गज्ञानेन प्रच्छन्ना खातिका ३उल्लासः ज्ञातेत्युक्तमस्तीति ॥ १८७॥
| ॥६७ ॥ तथा-द्रोणः कियन्मणमान इति प्रश्नोऽनोत्तरं-चतुर्भिः कुडवैः प्रस्थः, प्रस्थैश्चतुर्भिराढकः, चतुर्भिराढोणः, अत्र नाममालावृत्तौ |
कुडवशब्देन प्रसूतिद्वयं व्याख्यातमस्ति, तदनुसारेण यद्भवति तद्रोणमानमवसेयं, परमियन्मणमानो द्रोण इति तु क्वापि व्यक्तं दृष्टं न
स्मरतीति ॥ १८८॥ NI तथा—कल्पसूत्रे वाच्यमाने पार्श्वेऽस्वाध्यायो भवेत्तदपनयनं च कतै न शक्यते तदा तद्वाचनं शुद्धयति नवेति प्रश्नोऽत्रोत्तरंपार्थेऽस्वाध्यायो भवति तथाप्यवश्यकरणीयत्वात्कल्पसूत्रवाचनं शुद्धयतीति ।। १८९ ॥
तथा-वर्षाकाले नीलिका फुल्लिका च कियद्भिर्दिनैः प्रासुकीभवतीति प्रश्नोऽत्रोत्तरं--वर्णादिकपरावर्ते सति प्रासुकीभवति, परं दिवसमानं ज्ञातं नास्तीति ॥ १९ ॥
तथा–केचन वदन्ति-नमस्कारसहितप्रत्याख्याने उदिते सूर्ये भोक्तुं कल्पते, योगशास्त्रे तु ' अह्नो मुखेऽवसाने चे' त्यनेन घटिकाद्वयमध्ये | भोक्तुं न कल्पते, घटिकाद्वयप्रारम्भोऽपि किं प्रातः कररेखादर्शनत उत सूर्योदयत इति प्रश्नोऽत्रोत्तरं-नमस्कारसहितप्रत्याख्याने सूर्योदयादारभ्य मुहूर्ताभ्यन्तरे प्रत्याख्यानमङ्गभयाद्भोक्तुं न कल्पते — उग्गए सूरे नमुक्कारसहिअं पच्चक्खामि ' इत्यादिसूत्रव्याख्याने योगशास्त्रवृत्त्यादौ च तथैव दर्शनादिति ॥ १९१॥
तथा-प्रतिक्रमणहेतुगर्भे रात्रिकप्रतिक्रमणविधौ रात्रिकप्रायश्चित्तकायोत्सर्गस्ततः चैत्यवन्दनं ततः स्वाध्यायः, एवं पश्चात्प्रतिक्रमणादौ
॥६७॥
For Private Personel Use Only
w.jainelibrary.org