________________
तथा-दिने दिने रविर्मण्डलपरावर्त करोति, तत्राधिकमासि कथं करोति !, मण्डलानि तु अयने अयने नियतान्येव सन्ति, क्षेत्रमानमपि नियतमेवास्ति, तत्र केचन वदन्ति-हीयमानदिनपूर्तये मासवृद्धिरस्ति, हीयमानदिनपूर्तिकृते तु वृद्धिमदिनास्सन्ति, तथा ' आसाढे मासे दुपया'
अनेन मानेन श्रावणान्त्यदिने चतुरङ्गुलवृद्धिर्विलोक्यते, द्वितीयश्रावणान्त्यदिनेऽपि चत्वार्येवाङ्गुलान्युताष्टौ ! यदि चत्वारि तदा पिष्टिदिनेषु पू] पुनः पुनः तत्रैव भ्राम्यति, येनाकुलमानं तादृगवस्थं, तत्र मण्डलसाङ्गत्यं यथा भवति तथा प्रसाद्यमिति प्रश्नोऽत्रोत्तरं-सूर्यसम्बन्धित्रिंशन्मासेषु
गतेषु चन्द्रसम्बन्धिन एकत्रिंशन्मासा भवन्ति, तत्रैकत्रिंशत्तमो मासोऽभिवर्द्धित उच्यते, तेन सूर्यमण्डलानां नियतत्वेऽपि अधिकमासि पौरुष्यादि| प्रमाणे न किञ्चिदनुपपन्नत्वं, विशेषजिज्ञासायां मण्डलप्रकरणं विलोकनीयमिति ॥ १८४ ॥
तथा-अष्टम्यादितिथिवृद्धौ अग्रेतन्या आराधनं क्रियते, यतस्तद्दिने प्रत्याख्यानवेलायां घटिका द्विघटिका वा भवति, तावत्या एवाराधनं KI भवति, तदुपरि नवम्यादीनां भवनात् सम्पूर्णीयास्तु विराधनं जातं, पूर्वदिने भवनाद् , अथ यदि प्रत्याख्यानवेलायां विलोक्यते, तदा तु पूर्वदिने |
द्वितयमप्यस्ति, प्रत्याख्यानवेलायां समग्रदिनेऽपीति सुष्ठ आराधनं भवतीति प्रश्नोऽत्रोत्तरं-क्षये पूर्वी तिथिः कार्या, वृद्धौ कार्या तथोत्तरा' | इति उमास्वातिवाचकवचनप्रामाण्याद् वृद्धौ सत्यां स्वल्पाऽप्यग्रेतना तिथिः प्रमाणमिति ॥ १८५॥
तथा-एकादशोत्तराध्ययनचतुर्दशसहख्या १३१ पत्रे 'जोगवं उवहाणवं' इति द्वयमपि शिष्यस्योक्तमस्ति, तत्कयं शिष्यस्य श्राद्धस्य च कार्यत इति प्रश्नोऽत्रोत्तरं-योगा मनोवचनकायसम्बन्धिनः उपधानं तपोविशेषः, एतद्वयमपि मुनीनामेवोक्तमस्ति, श्राद्धानामुपधानोद्वाहनं तु महानिशीथाक्षरप्रामाण्यादेवेति ॥ १८६ ॥
For Private
Personal Use Only
jainelibrary.org