________________
यत्र च निषीदन्ति तत्र देवा अशोकवृक्षं विकुर्वन्तीति समवायाङ्गादावभिप्रायोऽस्ति, तेन तदुपरिवर्तिनः सालवृक्षस्यापि तथैव सम्भावना, न तु | सार्द्ध चलनं प्रथमसमवसरण एव वा तद्विधानमिति ॥ १७६ ॥
तथा-लघुविबुधानां पर्यायज्येष्ठा गणयः क्षामणकं न कुर्वन्तीति रातिर्दश्यते, परं भोजनमण्डलीस्थानादेशं प्रतिक्रमणमण्डलीस्थानादेशं M प्रतिक्रमणावसरे गमनागमनालोचनादेशं च मार्गयन्ति नवा ! तेषां पुरतो वृद्धगणीनां प्रतिक्रमणादिकं कृतं शुद्धयति नवेति ! प्रश्नोऽत्रोत्तरं-10 क लघुविबुधानां क्षामणकादि सर्व शास्त्रानुसारेण कृतं शुद्धयतीति ज्ञायते, साम्प्रतीनव्यवहारेण तु क्षामणादिकं न कुर्वन्ति, मण्डल्यादेशमार्गणादिकं तु केचित्कुर्वन्ति केचिन्न कुर्वन्तीति दृश्यते, तेन नात्रार्थे आग्रहः कार्य इति ॥ १७७ ।।
अथ पण्डितरत्नहर्षगणिकृतप्रश्नौ तदुत्तरे चयथा--ग्रामान्तरगतः श्राद्धः श्रुतभवनदेवतयोर्मध्ये कस्याः कायोत्सर्ग करोतीति प्रश्नोत्रोत्तरं-पाक्षिकचातुर्मासिकसांवत्सरिकदिवसं विना श्राद्धानां स्थानान्तरगतानामपि 'सुअदेवया भगवई' इत्येव स्तुतिः पठनार्हा नान्येति ॥ १७८ ॥
तथा-८ पूर्वार्द्वरेक उपवास इत्यादिगणनया गणितं तपस्तृतीयपञ्चमोपधानमध्य आयाति नवेति ? प्रश्नोऽत्रोत्तर-पञ्चमङ्गलमहाश्रुतस्कन्धः १ प्रतिक्रमणश्रुतस्कन्धः २ शकस्तवाध्ययनं ३ चैत्यस्तवाध्ययनं ४ नामस्तवाध्ययनं ५ श्रुतस्तवसिद्धस्तवाध्ययनं चेति ६ षडुपधानानि, तत्र चतुथषष्ठे विना चत्वार्युपधानानि मूलविधिनाऽपराविधिना चोह्यमानानि सन्ति, तत्रापरविधावष्टभिः पुरिमारेक उपवास इत्यादिगणना भवति, नतु मूलविधौ, प्रयोजनाभावात् , चतुर्थषष्ठयोर्मूलावधिनैवोह्यमानत्वात्तद्गणनाप्रयोजनं नास्तीति ॥ १७९ ॥
Jain Educati
o
nal
For Private & Personel Use Only
AGHainelibrary.org