SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ सेनप्रभे ३ उल्लासः ॥ ६५ ॥ Jain Educatio चिर्भटं सचित्तं सत् भक्षितं तज्जातीयमन्यत्फलं किञ्चिद्भक्षितं च तदा तस्य सचित्तमेकमेव लग्नं? किंवा सचित्तद्विकं जातं यथा चाम्भसि निपानान्तरे पीतेऽपि सचितमेकमेव गणयन्ति तथाऽत्र न्यायः ? किं वा पृथग्गण्यते सचित्तमिति, प्रश्नोऽत्रोत्तरं - प्रत्याख्यान कर्तुर्विवक्षैव प्रमाणमिति ॥ १७३ ॥ तथा - सगरचक्रिणः पुत्रैर्यदाऽष्टापदप्रासादरक्षार्थं खातिका खाता जान्हवी चानीता तदा नागकुमाराणां भवनेषु मृत्तिका पानीयं च पतितं, अत्र के नागकुमारा अवसीयते ? नागकुमाराणां भवनानि भवनपतित्वेन रत्नप्रभायाः प्रमाणाङ्कलनिष्पन्न सहस्रयोजनानानामधो वर्त्तन्ते, एतावती भूमिः कथं खातुं शक्यते दण्डरत्नप्रभावात्कदाचित्तदपि भवति, परं सहस्र योजनाधश्च नरक्षेत्रप्रमाणो नरलोकस्याध एव सीमन्ताभिध इन्द्रकनरकावासो वर्त्तते, तेन तत्र नागकुमाराणां भवनानामसम्भवोऽतः के ते नागकुमाराः ? ये श्रीमदुत्तराध्ययनवृत्तौ नागकुमारास्तदधिपो ज्वलनप्रभश्च उक्तः, तद्विशेषः शास्त्रादौ विलोक्य प्रसाद्य इति ? प्रश्नोऽत्रोत्तरं - प्रज्ञापनाद्यनुसारेण ' चउतीसा चउचत्ते ' त्यादिगायोक्तानि भवनपतीनां भवनानि योजनसहस्रादधः सन्ति, वसुदेवहिण्डयाद्यनुसारेण पुनरर्वागपि अनियतप्रमाणाः कायमानाकारा मण्डपाः प्रासादाश्च ज्ञायन्ते, यथा रत्नप्रभाया उपरि भवनपतीनां व्यन्तराणां च राजधान्यः प्रासादाश्च सन्तीति ॥ ९७४ ॥ तथा — गणधरो ज्येष्ठोऽन्यो वा तीर्थस्थापनादिने एव तीर्थकरस्य व्याख्यानानन्तरं व्याख्यानं करोति, उत सर्व्वदा भगवद्वयाख्यानानन्तरं मुहूर्तमेकं व्याख्यानं करोतीति प्रश्नोऽत्रोत्तरं ज्येष्ठोऽन्यो वा गणधरः सर्व्वदा द्वितीयपौरुण्यां व्याख्यानं करोतीत्यक्षराण्यावश्यकत्यादौ सन्ति, न तु तीर्थ स्थापनादिने एव मुहूर्त्तमेकं व्याख्यानं करोतीति ॥ १७५ ॥ तथा - श्रीवर्द्धमानजिनस्य प्रथमसमवसरणे सालवृक्ष उर्ध्वमभूकिवा सर्व्वदाऽपि सार्थेऽचलादेति ! प्रश्नोऽत्रोत्तरं यत्र भगवन्तस्तिष्ठन्ति For Private & Personal Use Only विनयकुश० १३१-१७७ ॥ ६५ ॥ jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy