SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ तथा--श्रीज्ञातासूत्रेऽष्टमाध्ययने अदीनशत्रुराज्ञो ( जस्य ) मल्लीस्वरूपावगमाधिकारे 'तएणं से मलदिन्ने कुमारे तस्स चित्तगरस्स सण्डा| सगं छिन्दावेती'त्यत्र सन्दंशशब्देन किमुच्यते ! तस्य किं छेदितं ! वृत्तौ व्याख्यातं न दृश्यते, आवश्यकवृत्ति-उपदेशमाला-दोघट्टीवृत्ति| श्राद्धविधिप्रमुखग्रन्थेषु मृगावतीसम्बन्धे सन्दंशक एव लिखिनोऽस्ति, परं सन्दशकस्यैवार्थः क ?, तेन तस्यार्थः साक्षरं प्रसाद्य इति, प्रश्नोऽत्रोत्तरं | सन्दंशकशब्देनाबाङ्गुष्ठप्रदेशिन्योरग्रमुच्यते, यतो विशेषावश्यकवृत्तौ चित्रकरसम्बन्धाधिकारे-निरपराधस्यैकचित्रकरस्याङ्गुष्ठप्रदेशिन्योरगं छेदितं शतानीकनरपतिनेत्युक्तमस्तीति ॥ १७१॥ तथा-तत्रैव मल्ल्यध्ययने । जाव वसितिमाओ पुरिसजुगाओ जुगंतकरभूमी, दुवासपरिआए अंतमकासी ' त्यत्र मल्लिजिनादारभ्य तत्तीर्थे | ताविंशतिपुरुषं यावत्साधवः सिद्धास्ततः परं सिद्धिगमनव्यवच्छेदोऽभूदिति वृत्तावुक्तं, तर्हि किं पट्टप्रतिष्ठितानां साधूनां केवलज्ञानाभावः! किंवा सर्वेषां || साधूनां केवलव्युच्छित्तिः ? यदा च सर्वेषां मनुष्याणां केवलज्ञानव्यवच्छेदस्तर्हि प्रज्ञापनावृत्त्यादौ प्रथमपदे पञ्चदशभेदसिद्धगतातीर्थसिद्धाधिकारे सप्तस्वन्तरेषु तीर्थव्यवच्छेदेऽपि सिद्धिगमनं कथमुक्तं ? तीर्थव्युच्छित्तौ यदा मोक्षमार्गस्तदा तीर्थे सति सिद्धिगमनं कथं न स्यात् ? यदि चात्र | पट्टप्रतिष्ठिता एव चिन्त्यन्ते तदा 'दुवासपरियाए अन्तमकासी'त्यत्र साधव एव सिद्धाः, एवमशेषतीर्थङ्कराणामपि सति शासने केवलव्यवच्छेदो भवति N| नवेति ? प्रश्नोऽत्रोत्तरं-श्रीमल्लितीर्थे विंशतितमपट्टधरादनु सर्वसाध्वादिसिद्धिगमनव्युच्छेदो ज्ञेयो, नचैवं सति सुविध्यादीनां तीर्थकृतामन्तरेषु तीर्थव्यु च्छेदे कथं सिद्धिगमनमुक्तमित्याशंकनीय, तत्र तीर्थव्युच्छेदेऽपि मुक्तिमार्गस्याव्युच्छिन्नत्वात् जातिस्मरणादिना तत्प्राप्तेर्नन्दीवृत्त्यादावुक्तत्वाच्च, यत्र च || तीर्थे सत्यपि मुक्तिगमनव्युच्छेदस्तत्र संहरणतोऽसाधारण्येन ज्ञेयं, तथा सर्वतीर्थकृतां शासने सति केवलव्युच्छेदो भवति नवा, इत्यत्र नैकान्त इति।।१७२॥ तथा--येन श्राद्धेन सचित्तपरिमाणं कृतं भवति तस्य च नीलवनस्पत्याः संख्या वर्तते चिर्भटकजातिरित्येव प्रत्याख्यातमस्ति, तेन च Jain Education For Private 3 Personal Use Only jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy