________________
सेनप्रभे
३ उल्लासः
॥ ६४ ॥
Jain Education
तथा - कालमानं किं विकृतिपक्वान्नस्यैव उत सर्व्वपक्वान्नस्येति, प्रश्नोऽत्रोत्तरं - विकृतिपक्वान्नस्येव च सर्वपकान्नस्य कालमानं समानमिति वृद्धाः || १६७ ॥
तथा-योगे कल्पाकल्प्यविभागः तृतीयभाष्यावचूर्णो लहचुई प्रारम्य तक्रं यावल्लिखितस्तत्र तक्रं फूलवघारितमन्यद्वा ?, चेत्कूलवचारितं तर्हि अपुष्पवारितं कल्पत एव तदेवं अपुष्पवधारितं पूरणपटीरड्यादिकं कल्पते नवा ? तथा लहिंगटुं पलेववगारकवडी प्रमुखं भगवतीयोगे चमरोदेशकं यावदाचारङ्गसप्तसप्तिकोत्तराध्ययनं यावच्च न कल्पते, तर्हि तदन्येषु स्थानेषु योगे तानि घोलवटकादीनि कल्पन्ते नवा ? तथा आचामाम्लायितकटकाणकटकाणिका योगमध्ये कल्पन्ते नवेति ? प्रश्नोऽत्रोत्तरं - ग्रन्थोक्ताक्षरानुसारेण फूलवघारितं तकं पटीरड्यादिकं च योगेषु न कल्पते, अन्यत्तु कल्पते, परं साम्प्रतं वृद्धवादानुसारेण तक्रं कल्पते, पूरणपटीरड्यादिकं त्वाचामाम्लयोग्यमेव योगेषु कल्पते, तथा लहिंगटुं पलेवइत्यादिकं भगवतीचमरोद्देश कानुज्ञादिस्थानत्रयं विनाऽन्य सर्व्वयोगेषु कल्पते वगारकवडीप्रमुखं तु साम्प्रतीनवृद्धवादानुसारेणाचामाम्लयोग्यमेव कल्पते नान्यत्, तथा कटकाणकादिकमप्याचामाम्लयोग्यं कल्पत इति ॥ १६८ ॥
तथा-गृहचैत्ये यदि केनचिदर्हतां भूषणानि कारितानि कालान्तरे च स गृहस्थो गृहकार्ये आपतिते तानि व्यापारयति तदा कप प्रश्नोऽत्रोत्तरं यदि देवार्थमेव कारितानि तदा न कल्पन्ते, यदा तु साधारण्येन कारितानि तदा कल्पन्ते, अत्राभिप्राय एव प्रमाणमिति ॥ १६९ ॥ तथा पौषधवतां श्राद्धानां कर्पूरादिभिः कल्पादिपुस्तकपूजा पौषघवतीनां श्राद्धीनां च गूहलिकान्यूंछनकादिकरणं शुद्ध्यति नवेति प्रश्नोत्तरं - पौषघवतां श्राद्धानां कर्पूरादिभिः कल्पादिपुस्तकपूजा न घटते, द्रव्यस्तवरूपत्वाद् गुरुपारम्पर्येणापि तथा दृष्टत्वाच्च, एवं पौषघवतीनां श्राद्धीनां हरिकान्यूञ्छन काद्याश्रित्यापि ज्ञेयमिति ॥ १७० ॥
For Private & Personal Use Only
विनयकुश० १३१-१७७
॥ ६४ ॥
jainelibrary.org