________________
Jain Educati
तथा - कल्पसूत्रे द्विचत्वारिंशत्स्वप्नास्त्रिंशन्महास्वप्ना द्वासप्ततिस्सर्व्वे स्वप्ना इत्यादि यदुक्तं तेषां नामानि पृथक् पृथक् क्वापि ग्रन्थे सन्तीति प्रश्नोऽत्रोत्तरं - द्वासप्ततिनामानि ग्रन्थे दृष्टानि न स्मरन्तीति ॥ १६९ ॥
तथा -- श्रीवीरजिनजन्मोत्सवावसरे मेराविन्द्रस्य सन्देहो यः समुत्पन्नः स सौधर्मेन्द्रस्य ततः कथं प्रथममच्युतेन्द्रः स्नपयतीति युक्तिमदिति ? प्रश्नोऽत्रोत्तरं - श्रीवीरजन्माभिषेकावसरे सौधर्मेन्द्रस्य संशयस्समुत्पन्नः, तदनु सन्देहापनोदात् सौधर्मेन्द्राज्ञया अच्युतेन्द्रः प्रथमं स्नपयतीति नायुक्तिमत्, श्रीवीरचरित्रादौ तथैव दर्शनादिति ॥ १६२ ॥
तथा -- जिनकल्पिकः कथं मोक्षं न याति ? कर्म्मणो बाहुल्यादन्यद्वा किमपि कारणं तस्य क्षपकश्रेण्युपशमश्रेण्योर्मध्ये कापि भवति नवेति ! प्रश्नोऽत्रोत्तरं - जिनकल्पिकस्तस्मिन् भवे मोक्षं न याति तथाकल्पत्वात्, किंचोपशमश्रेणिं तु कश्चित्प्रतिपद्यते, न तु क्षपकश्रेणि, पञ्चवस्तु तथाभिधानादिति ॥ १६३ ॥
तथा - उपधानोत्तर दिनस्य प्राग्दिने योगोत्तरणादिनवत्तप एव कृतं विलोक्यते एकाशनपारणकेऽप्युत्तरितुं कल्पते नवेति ? प्रश्नोऽत्रोत्तरंएकाशनका दिपारणकेऽप्युक्त्तारयितुं कल्पते, न तु योगादिवत्तपोनियम इति ॥ १६४ ॥
तथा - प्रतिमाघरश्राद्ध्यः पर्व्वदिवस पौषधान् रात्रिकायोत्सर्गी श्वास्वाध्यायसम्भवे कथं कुर्वन्तीति रीतिः प्रसाद्येति ? प्रश्नोऽत्रोत्तरं - अस्वाध्यायसम्भवे प्रतिमाधरश्राद्ध्यो मौनेन कायोत्सर्गान् पौषधादिकं च कुर्वन्तीति वृद्धवादः ॥ १६९ ॥
तथा - जीवाभिगमादिषु नपुंसकस्य यत् चरणमुक्तं तत्सम्यक्त्वं देशसंयमं सर्व्वसंयमं वा, पञ्चदश भेदाः सिद्धानां प्रोक्तास्तत्र मूलनपुंसकत्वे कृत्रिमत्वे वा मोक्षः ? तत्साक्षरं प्रसाद्यमिति ! प्रश्नोऽत्रोत्तरं - जातिनपुंसकस्य सम्यक्त्वं देशविरतिं च यावत्प्रतिपत्तिर्भवति, न तु परतः, तेन मोक्षावाप्तिरपि कृत्रिमनपुंसकानामिति ।। १६६ ।।
For Private & Personal Use Only
www.jainelibrary.org