SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सेमप्रमे उल्हासः ॥ ६३॥ विनयकुश. १३१-१७७ तथा-श्रेणिककृष्णयोमीसाशनमासीन्न वेति ? प्रश्नोऽत्रोत्तरं-शुद्धसम्यक्त्ववतां प्रायो मांसाद्यभक्ष्यभक्षणं न युक्तिमत् , तथापि तथाकि- धाक्षरोपलम्भं विना सम्यग्दृष्टयो मांसाद्यमक्ष्यं नैव भक्षयन्तीति नियमस्तु वक्तुं न शक्यते ॥ १५ ॥ तथा-कूणिकरावणयोस्तीर्थकरत्वं कुत्र ग्रन्थे प्रोक्तमस्ति ! कस्मिन् क्षेत्रे कतिभवैरिति प्रश्नोऽत्रोत्तरं-रावणाख्यभवादारभ्य रावणजीवस्य चतुर्दशे भवे तीर्थकरत्वं त्रिषष्टीयपनचरित्रे प्रोक्तमस्ति, क्षेत्रव्यक्तिस्तु न दृश्यते, कूणिकस्य तु तीर्थङ्करत्वप्राप्त्यक्षराणि कुत्रापि दृष्टानि न स्मरन्तीति ॥ १५७ ॥ तथा-चैत्रमासीयकायोत्सर्गविस्मृतौ यत् स्वयं योगोद्वहनं न कल्पते तथान्येषां योगक्रियाप्रवेदनादिकं कारयितुं शुद्धयति न वा ! तथा कालग्रहणं दण्डिकाधरणं दिगालोकश्च शुद्धयति न वेति ? प्रश्नोऽत्रोत्तरं-चैत्रसम्बन्धिकायोत्सर्गाकरणे तस्य योगसम्बधिनी क्रिया स्वयं कर्तुं परेषां | कारगितुं च न कल्पत इति ॥ १५८॥ तथा--चैत्राश्विनमासचतुर्मासकद्विकसत्कास्वाध्यायः पञ्चमीचतुर्दशीयामद्वयानन्तरं यल्लगति तद्यामद्वयं तिथिभोगापेक्षया किंवा औदयिकापेक्षयेति ? प्रश्नोत्रोत्तरं-चैत्राश्विनमासयोः पञ्चमीतिथेरीदस्वाध्यायो लगति, न तु सूर्योदयात् , एवं चतुर्मासकस्यास्वाध्यायोऽपि चतुर्दशीतिथे| रर्खाल्लगतीति वृद्धसम्प्रदाय इति ॥ १५९ ॥ तथा-श्रीऋषभदेवस्य पूर्वपञ्चमे ललिताङ्गदेवभवे स्वयम्प्रभानाम्नी या देव्यासीत् सैव च्युत्वा निर्नामिका समुत्पन्ना किं वाऽन्या काचिदिति ! प्रश्नोत्रोत्तरं-ऋषभदेवस्य पाश्चात्यपञ्चमभवे ललिताङ्गदेवस्य स्वयम्प्रभादेवीच्यवनादनु अन्यो निर्नामिकाजीवः स्वयम्प्रभास्थाने समुत्पन्न इत्यावश्यकमल यगिरिवृत्त्यायनुसारेण ज्ञायते, तेन न कोऽप्यत्र शङ्कावकाश इति ॥ ११०॥ Jain Educa t ional For Private Personal Use Only w.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy