SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ तथा-देवकमासि कल्याणकानि पूर्वे पाश्चात्ये वा मासि क्रियन्ते ? केचन परपाक्षिका वदन्ति- प्रथमश्रावणकृष्णपक्षे द्वितीयश्रावणशक्लपक्षे च कल्याणकतपो विधीयते, तत्सङ्गतं वितथं वेति प्रश्नोऽत्रोत्तरं-देवकमासापेक्षया वृद्धिप्राप्तं मासं विमुच्य कल्याणकतपःकरणं युक्तिमदिति ॥ १५१ ॥ | तथा-यथाऽऽहारे हस्तशतादृद्धमानीतमभ्याहृतं भवति, वस्त्रादिषु तथैवान्यथा वेति ? प्रश्नोऽत्रोत्तरं- आइन्नं तुक्कोस, हत्थसयातो घरे | उ तिन्नि तहिं ' इत्यादिपिण्डविशुद्धयादिगाथानुसारेण वस्त्रैषणायामपि ज्ञेयं, य एवाहारदोषास्त एव वस्त्रदोषा इति ॥ १५२॥ तथा--पत्वाविआ सुहत्थी, अजाए जक्खदिन्ननामाए । पन्वावणानिसहो, तओ परं साहुणी वग्गे ॥ १॥ आलोअणवयदाण'मित्यादिगाथाः | | कुत्र ग्रन्थे सन्ति, छूटकपत्रे तु दृश्यन्ते, समीचीना असमीचीना वेति प्रश्नोत्रोत्तरं-'स्वामिना स्थूलभद्रेण, शिष्यौ द्वावपि दीक्षितौ । आर्यमहागिरिश्चार्यसुहस्ती चाभिधानतः ॥ १॥ तौ हि यक्षार्यया वाल्यादपि मात्रेव पालितौ । इत्यायोपपदी जाती, महागिरिसुहस्तिनी ॥ २॥' इति परिशिष्टपर्वण्युक्तमस्ति, · पव्वाविओ सुहत्थी' इत्यादिगाथायास्त्वास्पदं नास्तीति ॥ १५३ ॥ तथा-श्रीवीरजन्मपत्री छूटकपत्रे चैत्रशुदित्रयोदशी भौमे उत्तराफाल्गुनीनक्षत्रे सिद्धियोगे रात्रिघटी १५ मकरलग्ने सिद्धार्थराजगृहे पुत्रो जातः स्कन्दपुराणादुद्धता इत्येवं लिखिता दृश्यते, परं वीरजन्मपत्रीयमेवान्यथा वेति प्रश्नोऽत्रोत्तरं-वीरजन्मपत्री तु स्कन्दपुराणनाम्ना छूटकपत्रे लिखिता दृश्यते न तु ग्रन्थे दृष्टाऽस्तीति ॥ ११४॥ ___तथा-२५६ आवलिकायुःप्रमाणं सूक्ष्मवादरनिगोदयोरुभयोः किं वाऽऽद्यस्यैवेति प्रश्नोऽत्रोत्तरं-सूक्ष्मनिगोदस्य क्षुल्लकभवग्रहणरूपमेवा|न्तर्मुहूर्त्तमायुभवति, बादरनिगोदस्य तु क्षुल्लकभवग्रहणरूपं किञ्चिन्न्यूनान्तर्मुहूर्तरूपं च भवति, सामान्येन तु उभयोरप्यन्तर्मुहूर्तमुच्यत इति ॥ १५५ ॥ JainEducation For Private Personel Use Only H ainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy