________________
सेनप्रों ३उल्लासः
विनयकुश व १३१-१७७
६२॥
पाठः सढो इति पदेनैव संयुक्तो दृश्यते, तत्र अशठा इति व्याख्यानेन साधुश्राद्धयोः समानमेवावश्यककर्त्तव्यं दृश्यते, तथापि भावदेवमूरिकृत- सामाचार्या अवचूणावेतद्गाथात्रयं केषांचिन्मते साधवो न पठन्तीति प्रोक्तमस्ति, तन्मतान्तरं ॥ १४५ ॥
तथा-मिलन्ती तिथिः कियघटीप्रमाणा शुध्यति सर्वसङ्क्रान्तिप्विति, प्रश्नोऽत्रोत्तरं-जघन्यतस्सर्वसङ्क्रांतिषु घटीद्वयात्प्रारभ्य मिलन्ती तिथिः शुध्यति, न तु न्यूनेति परम्पराऽस्ति ॥ १४६ ॥
तथा--ऐरावणाद्याः सर्वदा गजतुरगवृषभरूपिणः ? किं वा सुररूपिणः ? किं वा वाहनावसरे गजादिरूपिणः ? तेषां योपितोऽपि किं. रूपिण्यः इति प्रश्नोत्रोत्तर-ऐरावणाद्या वाहनकाले गनादिरूपा अन्यदा तु सुररूपिणः, तेषां योषितस्तु सदा सुरीरूपा इति ज्ञातमस्ति ॥ १४७॥
तथा--श्रीपार्श्वनाथप्रसादात्सर्पजीवो नमस्कारं श्रुत्वा मौलो धरणेन्द्रो जातः, किं वा सामानिकः, तथोपसर्गावसरे समागास मौलः किं वाऽन्य इति प्रश्नोऽत्रोत्तरं-सर्वत्राक्षरानुसारेण मौलो धरणेन्द्रो ज्ञातो नास्तीति ॥ १४८॥ | तथा--श्रीमल्लिजिनस्य द्वादशपर्षदामवस्थितिर्देशनादौ सर्वजिनवत् किंवा भिन्नत्वमिति प्रश्नोऽत्रोत्तरं-देशनाकाले द्वादशपर्षदामवस्थितिसर्वजिनसमाना, वैयावृत्त्यं तु साध्व्यः कुर्वन्तीति ।। १४९ ॥
तथा— तीअद्धाए चंपाए, सोमपत्तीइ जस्स कडुतुंबं । दाउं नागसिरीए, उवजिओऽणंतसंसारो ॥ १॥' इति ऋषिपण्ड लसूत्रे ज्ञातासूत्रे कुशिष्यशतकवदुक्तं, द्रौपद्यध्ययने तु " खरवायरपुढविकाइयत्ताइसु अणेगसयसहस्सखुत्तो" इत्युक्तं, तेन द्रौपद्याः कुशिष्यस्य च | संसारः सङ्ख्यातोऽसङ्ख्यातोऽनन्तो वा ? अनन्तश्चेत्कथं तस्याः स निगोदगमनमन्तरेण सम्भवतीति यथाक्षरं व्यक्त्या प्रसाद्यमिति प्रश्नोऽत्रोत्तरं| उभयोरप्यनन्तसंसारित्वमेवावसीयते, द्रौपद्यधिकारे खरवायरपुढवीत्यादि तूपलक्षणपरं वेदितव्यमिति ॥ १५० ॥
॥६२॥
Jain Educatio Heational
For Private & Personel Use Only
jainelibrary.org