________________
Jain Educa
तथा - लवणसमुद्रे वृद्धकलशानां लघुकलशानां च मुखानि सर्व्वथा पानीयस्याधो वर्त्तन्ते किंवा सहस्रयोजनानामुपरीति ! प्रश्नोऽत्रोत्तरंकलशानां मुखानि पानीयस्याधो भूमिसम्बद्धानि वर्त्तन्त इति प्रवचनसारोद्धारसूत्रवृत्तिक्षेत्रसमासानुसारेण ज्ञायत इति ॥ १४० ॥
तथा - मेरोर्मेखलास्वरूपं केनाकारेण विद्यत इति प्रश्नोऽत्रोत्तरं -- _7_ अनेन स्थापिताकारेण मेरोर्मध्ये, नतु बहिस्तान्मेखला वर्त्तत इति ॥ १४१ ॥
तथा — प्रतिमाधरो यतिर्यदि परीषहादिना न क्षुभ्यति तदा अवधिज्ञानादि प्राप्नोति, यदि च क्षुभ्यति तदोन्मत्तरोगातङ्कादि प्राप्नुयात्, परं स कथं क्षुभ्यति, यतः स्वयं पूर्व्वधरस्ततः पूर्वं दत्तोपयोगो भविष्यति, पूर्व्वधराज्ञया च प्रतिमां प्रतिपन्नोऽस्तीति प्रश्नोऽत्रोत्तरं - बथा प्रतिमाप्रतिपत्तुः स्त्रयं पूर्व्वधरत्वं तथा दातुरपि, तथापि तयोश्छद्मस्थत्वेन तस्मिन्समये श्रुतोपयोगाभावोऽपि भवति, तेन स कथं क्षुभ्यति इत्याशङ्का निरवकाशेति ॥ १४२ ॥
तथा — त्रिषष्ट्यधिकशतत्रयपाखण्डिकास्समवसरणाद्वहिस्तिष्ठन्ति किंवा मध्ये इति प्रश्नोऽत्रोत्तरं पाखण्डिकाः प्रायो बहिरेव भवन्ति, कश्चित्तु कदाचिन्मध्येऽपि समेति तदा कोऽत्र प्रश्नावकाश इति ॥ १४३ ॥
तथा— शीतोदायास्समुद्रे प्रवेशः कथं जायते अधोग्रामगामित्वेनेति प्रश्नोऽत्रोत्तरं - शीतोदायाः प्रवेशस्तु जयन्तद्वाराऽधो भूत्वा लवणा|ब्धावनेक योजनसहस्राणि भूम्यन्तर्गत्वा भवतीति लघु बृहत् क्षेत्रसमासविचारसप्ततिवृत्त्यादावस्तीत ॥ १४४ ॥
तथा - ' आयरिय उवज्झाए' इत्यादिगाथात्रयं केचन न पठन्ति वदन्ति च योगशास्त्रदृत्तौ 'काऊण वंदणं तो' इत्यत्र श्राद्धानामेव प्रोक्तमस्ति न यतीनामिति प्रश्नोऽत्रोत्तरं - योगशास्त्रवृत्तिजीर्णपुस्तकषट्कं विलोकितं, तत्र सर्व्वत्रापि ' काऊण वंदणं तो ' इति गाथायाः
mational
For Private & Personal Use Only
www.jainelibrary.org