________________
सेनप्रश्ने
३ उल्लासः
॥ ६१ ॥
तथा - येषां नक्षत्राणां द्विज्यादितारकारसन्ति तेषु प्रत्येकमेकस्मिन्वा विमानवाहकास्सन्तीति प्रश्नोऽत्रोत्तरं - केषुचिन्नक्षत्रेषु यद्यपि ताराबाहुल्यं प्रोक्तमस्ति, तथापि तत्र मौलं यन्नक्षत्रविमानं तत्र चतुस्सहस्रमिता विमानवाहकाः, तारारूपविमानेषु तु प्रत्येकं द्विसहस्रमिता विमानवाहका भवन्तीति सम्भाव्यते सङ्ग्रहणीवृत्त्याद्यनुसारेणेति ॥ १३५ ॥
तथा—ध्यानानि रूपीण्यरूपीणि वेति ? प्रश्नोऽत्रोत्तरं — ध्यानान्यरूपाणि, आत्मपरिणामरूपत्वात्तेषामिति ॥ १३६ ॥
तथा - सम्यक्त्वधारिणो देवा एकस्मिन् समये कति च्यवन्ते इति प्रश्नोऽत्रोत्तरं - सम्यग्दृष्टिदेवा उत्कर्षत एकस्मिन् समये सङ्ख्याता एव च्यवमानासम्भाव्यन्ते आगमानुसारेण, यतस्तत्र सम्यग्दृशां देवानां मनुष्येष्वेवोत्पादोऽभ्यधायि तेषां च सङ्ख्यातत्वादिति ॥ १३७ ॥
तथा - प्रथमदिने एक उपवासः कृतो द्वितीयदिने तु द्वितीय इत्थं कृतं षष्ठतप आलोचनामध्ये समायाति न वा ? तथा प्रहरानन्तरं प्रत्याख्यात उपवास आलोचनामध्ये आयाति न वेति प्रश्नोऽत्रोत्तरं - यद्यपि संलग्नतया प्रत्याख्यातं षष्ठादितपस्तथा कालवेला प्रत्याख्यातमुपवासतपश्च बहुफलदायि भवति, तथापि विशकलिततयोच्चारितं षष्ठादितपः कालातिक्रमेणोच्चारितमुपवासतपश्च सर्व्वथाऽऽलोचनामध्ये नायातीत्येकान्तो ज्ञातो नास्तीति ॥ १३८ ॥
तथा - सौधर्मे किल्बिषिकाणां विमानानि द्वात्रिंशलक्षमध्येऽन्यानि वा ? तेषां देवानां च सम्यक्त्वं भवति न वा ? तथा तत्र प्रतिमास्सन्ति नवेति प्रश्नोत्रोत्तरं - सौधर्मे द्वात्रिंशलक्षविमानानि देवलोकमध्ये, किल्बिपिकविमानानि तु स्वर्लोकादधः सङ्ग्रहिण्यादौ प्रतिपादितानि सन्ति, तथा तेषां सम्यक्त्वप्रतिमापूजाक्षराणि शास्त्रे दृष्टानि न स्मरन्तीति ॥ १३९ ॥
Jain Education International
For Private & Personal Use Only
विनयकुश० | १३१-१७७
॥ ६१ ॥
w.jainelibrary.org