SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte तथा -- श्रीवीरजन्मनि गुलपपटिकादिभोजनं लात्वाऽऽगच्छन्ति तदुपरि यतीनां वासक्षेपः कृतः शुद्धयति नवा इति प्रश्नोत्तरं - श्रीवीरजन्मनि गुडपपटिकादिभोज्योपरि सुविहितानां वासक्षेपपरम्परा नास्तीति ॥ १३० ॥ अथ पण्डितश्रीविनयकुशलगणिकृतप्रश्नास्तदुत्तराणि च - यथा - ' चरगपरिव्वाय बंभलोगो जा ' इति वचनानुसारेण द्वादशे स्वर्गे मैत्रेयके च मिथ्यात्विनः केऽवतरन्तीति प्रश्नोऽत्रोत्तरं - द्वादशस्वर्गे गोशालकमतानुसारिणः आजीविका मिथ्यादृशो व्रजन्ति, ग्रैवेयके तु यतिलिङ्गधारिनिह्नवादयो मिथ्यादृष्टयो व्रजन्तीत्योपपातिकाद प्रोक्तमस्तीति ॥ १३१ ॥ तथा - तामलिनाऽन्ते साधवो दृष्टाः सम्यक्त्वं च प्राप्तमिति प्रघोष का शास्त्रेऽस्तीति प्रश्नोऽत्रोत्तरं - अयं प्रघोषः श्री जिनेश्वरसूरिकृतकथानककोशे वर्त्तते ॥ १३२ ॥ तथा — इन्द्रास्सर्वेऽपि सर्व्वदा सम्यग्दृष्टय एवं मिथ्यादृष्टयोऽपि वा कदाचिद्भवन्तीति प्रश्नोत्तरं सर्वेऽपीन्द्रास्सर्व्वदा सम्यग्दृष्टय एव सम्भाव्यन्ते, न तु मिथ्यादृष्टयो, यतो जम्बूद्वीपप्रज्ञयादौ निर्वाणकल्याण कादौ निराणंदे अंमुपुण्णनयणे ' इत्यादिभक्तिप्राग्भारसूचकानि तेषां विशेषणान्युपलभ्यन्ते ॥ १३३ ॥ तथा - छक्कियाख्योपधाने उच्चरितपञ्चमीतपसां पष्ठदिने पञ्चमी समेति तदा पञ्चम्युपवासं कृत्वा सप्तमदिने आचाम्लं करोति किं वा षष्ठं करोतीति प्रश्नोऽत्रोत्तरं — सप्तमदिने उपवासस्यावश्यकरणीयत्वेन षष्ठं करोति, शक्त्यभावे तु तदनुसारेणैवोपधानप्रवेशं करोतीति ॥ १३४ ॥ For Private & Personal Use Only Finelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy