SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ तथा— उच्चनीयमज्झिमकुलाई अडइ ' इति अत्र लुम्पाका नीचशब्देन सर्वाणि नीचकुलानि वदन्ति, तत्कथमिति प्रश्नोत्रोत्तरं-- नीचकुलानि-दरिद्रकुलानि उच्चकुलानि-ऋद्धिमत्कुलानीति श्रीदशवकालिकवृत्त्यादिषु व्याख्यातमस्तीत्यतो नीचशब्देनाऽनृद्धिमत्कुलानि ज्ञेयानि | न तु गर्हणीयकुलानि, तथा च दशकालिकेऽपि 'पडिकुट्ठकुलं न पविसे' इत्यादि सूपपन्नमिति ॥ ११८ ॥ तथा-समुदानीभिक्षा किमुच्यते इति प्रश्नोऽत्रोत्तरं-उच्चावचं धनापेक्षया उत्तमाधर्म कुलं चरेत् सा समुदानीभिक्षोच्यते इति श्रीदशवकालिकसूत्रपिण्डैषणाध्ययनवृत्त्यादिषूक्तमस्तीति ॥ ११९ ॥ तथा-पौषधिकेन जिनालये गत्वा प्रहरे सार्द्धप्रहरे वा देवा वन्दितास्तस्य कालवेलायां पुनर्देववन्दनं युज्यते न वेति प्रश्नोऽत्रोचरंयेनाऽकाले देवा वन्दितास्तस्य कालवेलायां पुनर्देववन्दनं युज्यते, यतः कालवेलाकार्य कालवेलायामेव कर्त्तव्यं, परम्पराऽप्येवमेव दृश्यत इति ॥१२०॥ अथ पण्डितदेवविजयगणिकृतप्रश्नास्तदुत्तराणि । यथा-उपस्थापनायाः प्राक् दशकालिकयोगोत्तरं सप्तमण्डल्या आचाम्लानि कारयितुं कल्पन्ते न वेति प्रश्नोत्रोत्तरं-नियूंटेऽपि दशवैकालिकयोगे विनोपस्थापनां सप्तमण्डल्या अचाम्लानि कारयितुं न कल्पन्ते, योगविधावप्येतदुक्तमस्तीति ॥ १२१ ॥ तथा-चतुरशीतिलक्षपूर्वायुषां श्रीऋषभदेवेन सार्द्ध मोक्षं गतानां भरतस्याष्टनवतिभ्रातृणामायुरपवर्त्तनं कथमिति प्रश्नोऽत्रोचरंबाहुबलेरिव यदि तेषामायुश्चतुरशीतिलक्षपूर्वप्रमाणं क्वापि ग्रन्थे प्रोक्तं स्यात् तदा तदपवर्तनस्य हरिवंशकुलोत्पादयुगलिकायुरपवर्तनादिवदाश्चर्या|न्तर्भावान्न दोष इति ।। १२२ ॥ तथा—यतिः श्राद्धगृहे गत्वोपविश्य भक्तादिकं गृह्णाति नवेति प्रश्नोऽत्रोत्तरं-यतिः श्राद्धगृहे कारणं विनोपविश्य भक्तादिकं न Jain Educa t ional For Private Personal Use Only www.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy