________________
सेनप्रश्ने ३ उल्लासः ॥ ५९॥
श्रीशुभवि० १-१२०
तथा-मुखपोतिकाप्रतिलेखनायां 'सुत्तत्थ तत्तदिट्ठी , त्यादि भावना कथितास्ति, सा स्थापनाचार्यप्रतिलेखनायां क्रियते न वेति | प्रश्नोत्रोत्तरं-प्रवचनसारोद्धारसूत्रवृत्तिप्रतिक्रमणहेतुगर्भप्रमुखग्रन्थादिषु मुखवस्त्रिकादेहयोः पञ्चाशत्प्रतिलेखनानां भावना कथिताऽस्ति न तु स्थापनाचार्यप्रतिलेखनायाः, तथापि मुखवस्त्रिकाप्रतिलेखनायास्त्रीणि कारणानि कथितानि, यथा-जइवि पडिलेहणाए, हेऊ जियरक्खणं जिणाणा य । तहवि इमं मणमक्कडनिजंतणत्थं मुणी विति ॥ १ ॥ इति, तानि तु स्थापनाचार्यादिप्रतिलेखनायामपि ज्ञायन्त इति बोध्यम् ॥ ११४ ॥
तथा-श्राद्धानामुपवासे तन्दुलधावनं रक्षानीरं च कल्लते नवेति प्रश्नोत्रोत्तरं-तेषामुपवासे प्रासुकमुष्णोदकं चेति पानीयद्वयं कल्पते | तन्दुलधावनं रक्षामालं च प्रासुकं भवति, परं श्राद्धानां न कल्पत इति ॥ ११५ ।।
तथा-कृष्णेनाऽष्टादशसहस्रसाधूनां वन्दनकानि दत्तानि तानि किं लब्ध्याऽन्यथा वा ? यदि लब्ध्या तदा वीरासालविकस्यापि तथैवान्यथा | | वेति प्रश्नोऽत्रोत्तरं-कृष्णेन सहस्रादिपरिवारसहितथावच्चापुत्रादीनामग्रेसराणां वन्दनकानि दत्तानि, तदनुयायिसमस्तपरिवारस्यापि तानि समागतान्येव, ततो मनसा त्वष्टादशसहस्रसाधूनां दत्तान्येव, यदीत्थं न कथ्यते तदा वेला न प्राप्नोति, यतो दिनमानं तदा महन्नाभूत्तथा कृष्णस्यापि वन्दनकदानलब्धिज्ञाता नास्ति, तस्माद्वीरासालविकस्य वन्दनकदाने न काप्याशङ्केति ध्येयम् ॥ ११६ ॥
तथा-चैत्रमासवृद्धौ कल्याणकादि तपः प्रथमे द्वितीये वा मासि कार्यत इति प्रश्नोत्रोत्तरं-प्रथमचैत्राऽसितद्वितीयचैत्रसितपक्षाभ्यां | चैत्रमाससम्बद्धं कल्याणकादितपः श्रीतातपादैरपि कार्यमाणं दृष्टमस्ति, तेन तथैव कार्यमन्यथा भाद्रपदवृद्धौ मासक्षपणादितपांसि कुत्र क्रियन्त ? इति ॥ ११७ ॥
१ गौर्जरमासाऽपेक्षं।
॥ ५९॥
Jain Education intamaniona
For Private Personal Use Only
www.jainelibrary.org