SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ तथा-क्षारककरीरादिकमातपे दत्त्वा पश्चात्तैलादिदाने सन्धानकं भवति नवेति प्रश्नोऽत्रोत्तरं-क्षारककरीरादिकं दिनत्रयमातपे दत्त्वा पश्चात्तैलादिदापने न सन्धानकं जायत इत्थं श्रीपरमगुरुपाद्ये श्रुतं नास्ति, एवंविधान्यक्षराण्यपि दृष्टानि न सन्ति, प्रत्युत क्षारककरीरादिकमध्ये स्थितं पानीयं दिनत्रयोपरि यदि न शुष्यति तदा सन्धानकं जायत इति ॥ १११ ॥ तथा-पच्छा इरिआवहियाए' इति पाठानुसारेण श्राद्धानां सामायिककरणानन्तरमीर्यापथिकीप्रतिक्रमणं दृश्यते, तस्यार्थः प्रसाद्य इति प्रश्नोऽत्रोत्तरं-एतस्य विस्तरः सर्वोऽप्यावश्यकचूर्णिणमध्येऽस्त्यन्ये ग्रन्थास्तु सर्वे तदनुसारिणो वर्त्तन्ते, तथाऽऽवश्यकचूणिमध्ये Y| ईर्यापथिकी सामायिकसम्बद्धा कथिता नास्ति, यतो 'जइ चेइयाई अत्थि' इत्यादिकस्तत्र पाठः कथितोऽस्ति, तस्माञ्चैत्यगमनसम्बद्धाऽसौ ज्ञायते, अन्यस्तु सामायिककरणविधिरीर्यापथिकीप्रतिक्रमणमुखवत्रिकाप्रतिलेखनादिः सर्वः परम्परया ज्ञायते, तत ईर्यापथिकी प्रतिक्रम्यैव सामायिकं करणीयामिति ॥ ११२॥ तथा-'सरीरमुस्सेह अंगुलेण तह' ति वचनादेकान्तेन किं शरीरमानमिति प्रश्नोत्रोत्तरं-उत्सेधाङ्गुलेन शरीरमानमुक्तमस्ति, तथापि तत्प्रायिकं सम्भाव्यते, तेन न काप्यनुपपत्तिः, यद्येकान्ततः शरीरमानमुत्सेधाङ्गुलेनैव स्यात्तदा प्रज्ञापनोपाङ्गादावुक्तो द्वादशयोजनप्रमाणशरीरोऽ. सालिकानीवो महाविदेहादिचक्रिणां प्रमाणाङ्गुलेन द्वादशयोजनप्रमाणस्य स्कन्धावारस्य विनाशहेतुः कथं सम्भवति ! कथं वा कृतलक्षयोजनवैक्रियरूपेण सौधर्मदेवलोकं गतेन तेन चमरेन्द्रेणैकः पादः पद्मवरवेदिकायां मुक्तोऽपरश्च सुधर्मसभायामित्यादिकं भगवत्युक्तं | सम्भवतीति बोध्यम् ॥ ११३ ॥ Join Education International For Private & Personal use only Thelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy