SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सेनप्रश्ने ३ उल्लासः ॥ ५८ ॥ तथा - नव नारदाः कस्मिन् वारके सञ्जाता इति साक्षरं प्रसाद्यमिति प्रश्नोऽत्रोत्तरं - नव नारदाः वासुदेवसमानकालीनाः सम्भाव्यन्ते, तत्तच्चरित्रादिषु तद्वारके तेषां गमनागमनादिश्रवणादिति ॥ १०९ ॥ तथा --- शान्तिनाथजनन्या द्विश्चतुर्द्दश स्वप्ना दृष्टा उतैकवारमिति प्रश्नोऽत्रोत्तरं — शान्तिनाथजनन्या द्विश्चतुर्द्दश स्वप्ना दृष्टा, यदुक्तं शत्रुञ्जयमाहात्म्येऽष्टमपर्वणि द्विःस्वप्नदर्शनादर्हच्चक्रिजन्मसुनिश्चया । रत्नगर्भेव सा गर्ने, बभार शुभदोहदा ॥ १६ ॥ " इति एवमन्य "C त्रापीति ॥ १०६ ॥ तथा - तपःकरणाशक्तस्य श्राद्धस्य आलोचनाप्रायश्चित्तद्रव्यं क्व व्यापार्यते जिनालयेऽन्यत्र वा तत्कियद्दीयत इति प्रश्नोत्तरं - | आलोचनाप्रायश्चित्तविषये द्रव्यमोचनं तु तपः सामर्थ्याऽभावे आलोचनाऽऽदातुः सम्पत्त्यनुसारेण दीयते नत्वियत्तान्वितं तद्द्रव्यं चामारिजिनमन्दिरचित्कोशादिषु यथावसरमुपयुज्यते इति ॥ १०७ ॥ तथा— श्रावको वन्दनकानि ददत् मुखवस्त्रिकया गुरुपार्थं प्रमार्जयति तदाऽऽशातना लगति न वेति प्रश्नोऽत्रोत्तरं - मुखवस्त्रिकया गुरुपाद - प्रमार्ज्जने आशातना ज्ञाता नास्ति, प्रत्युत तत्प्रमार्जनं युज्यते, यथा शिष्या गुरुपादौ रजोहरेण प्रमाज्जयन्ति तद्वदिदमपि ज्ञेयमिति ॥ १०८ ॥ तथा—छक्किकोपधान वहनानन्तरं पण्मासमध्ये मालापरिधानं शुद्धयति किं वा षण्मासानन्तरमिति प्रश्नोऽत्रोत्तरं —तद्वहनानन्तरं षण्मास - मध्य एव मालापरिधापनं शुद्धयतीत्येकान्तो ज्ञातो नास्ति परं त्वरितं परिधाप्यते तदा वरमिति ॥ १०९ ॥ तथा -- उपधानवाचना तपःपूर्त्तं तपोदिने एव दीयतेऽन्यथा वा इति प्रश्नोऽत्रोत्तरं - पूर्णे तपस्युपधानवाचना दीयमानाऽस्ति, परं तपोदिने एव दीयते इत्येकान्तो ज्ञातो नास्तीति ॥ ११० ॥ Jain Education International For Private & Personal Use Only श्रीशुभवि० १-१२० ॥ ५८ www.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy