SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ सेनप्रभे ३ उल्लासः ॥ ५७ ॥ Jain Educati हालिकवत् कर्म्मवशाच्च तद्भङ्गेऽपि निन्दा गर्हादिना नन्दिषेणादिवत् शुद्धोऽपि स्यात्, तदपेक्षया स लघुकर्म्मा । येन तु तद्भङ्गभयादेव न गृहीतं स गुरुकर्मा, तहणला भाभावादिति । अन्यथा तु " वयभङ्गे गुरुदोसो, थेवस्सवि पालणा गुणकरी उ । गुरुलाघवं च नेअं, धम्मंमि अओ अ आगारा ॥ १ ॥ इत्यपि प्रत्याख्यानपञ्चाशके प्रोक्तमस्तीति ॥ ९६ ॥ तथा - दना पर्युषितौदनमेकीकृत्य करम्बको विहितः, स तृतीयदिने यतीनां कल्पते नवेति प्रश्नोऽत्रोत्तरम् -दना तक्रेण च द्वितीयादिनौ - दनो द्वितीयदिने तृतीयदिने वा करम्बको विहितः स तृतीयदिने साधूनां विहतु कल्पते इति परम्पराऽस्तीति ॥ ९७ ॥ तथा — उपधानवाहिनां परिपूर्ण प्रवेदनक्रियाकरणानन्तरं मुखवस्त्रिका प्रतिलेखनं विनाऽऽलोचनादिकं शुद्ध्यति नवेति ! प्रश्नोऽत्रोत्तरम् - उपधानवाहिनां परिपूर्णप्रवेदन क्रियाकरणानन्तरं मुखवस्त्रिका प्रतिलेखनं विनाऽपि आलोचनं क्षामणकं च क्रियमाणं परमगुरूणां पार्श्वे दृष्टमस्ति, सम्प्रत्यपि च कार्यमाणमस्तीति ॥ ९८ ॥ तथा --- श्राद्धादिना जपमाकादिकं साधुवत्वमस्कारद्वयेन त्रयेण वा स्थाप्यते इति प्रश्नोऽत्रोत्तरम् - श्राद्धैर्जपमालादिकं नमस्कारत्रयेण स्थाप्यते इत्यविच्छिन्नपरम्पराऽस्ति, परमुत्थापनमुषयोरप्येकेनैव नमस्कारेणेति बोध्यम् ॥ ९९ ॥ तथा — जीवानामिन्द्रत्वप्राप्तिः सकृदनेकशो वेति प्रश्नोऽत्रोत्तरं इन्द्रत्वं चक्रित्वं चानेकशः प्राप्नोति जीवो, यतः- “ देविंदचकवाट्टत्तणाइँ मुत्तूण तित्थयरभावं । अणगारभाविआवि अ, सेसा य अनंतसो पत्ता ॥ १ ॥ ' एषा गाथा प्रत्याख्यानप्रकीर्णके ६१ देवेन्द्रत्वं चक्रवर्तित्वादिकं च मुक्त्वा शेषा भावा अनन्तशः प्राप्ताः, देवेन्द्रत्वं चक्रवर्त्तित्वं तु अनेकशः प्राप्यते, न त्वनन्तश इति भावार्थः । ational For Private & Personal Use Only श्रीशुमवि० १-१२० ॥ ५७॥ w.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy