SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ सेनप्रने ३ उल्लासः ॥५६॥ श्रीशुभावि० १-१२० वीरात् १५३ वर्षे गईभिल्लोच्छेदी तृतीयः, वीरात् ५८४ वर्षे आर्यरक्षितसूरिः शक्रपृष्टनिगोदविचारव्याख्याता शक्रदत्तनामा कालिकाचार्य: चतुर्थः, प्राकृतदीपालिकाकल्प १ संस्कृतकालिकाचार्यकथा २ श्राद्धविधिविनिश्चय ३ श्राद्धविधि ४ विचारामृतसंग्रह ५ भरहेसरबाहुबलीवृत्ति ६. प्रमुखग्रन्थानुसारेण वीरात् ९९३ वर्षे पञ्चमीतः चतुर्थी पर्युषणापर्वाऽऽनेता पञ्चम इत्येतत्कालिकाचार्यपञ्चकं सत्यमसत्यं वेति ? प्रश्नोत्रोत्तरम्| भवल्लिखितकालिकाचार्यपञ्चकं सत्यमिव प्रतिभाति परं तद्ग्रन्थावलोकने सत्येव निर्णयो ज्ञापयिष्यत इति ।। ९० ॥ तथा-साध्वीनां कालिकयोगक्रियायां श्रावकदत्तानि वन्दनकानि शुद्धयन्ति नवेति ? प्रश्नोऽत्रोत्तरं-साध्वीनां कालिकयोगक्रियायां | | श्राद्धदत्तानि वन्दनकानि शुद्धचन्तीति वृद्धाः ॥ ९१ ॥ तथा-पोडशप्रहरानन्तरं दध्यऽभक्ष्यं स्यात् द्वादशप्रहरानन्तरं वेति व्यक्त्या प्रसाद्यमिति ! प्रश्नोऽत्रोत्तरं-" आमगोरससंपृक्तं द्विदलं पुष्पितौदनं । दध्यहर्द्धितयातीतं, क्वथितान्नं च वर्जयेत्-" ॥१॥ इति योगशास्त्रतृतीयप्रकाशे, एतद्व्याख्यालेशो यथा-इह हि इयं स्थिति:केचिद्भावा हेतुगम्याः केचित्वागमगम्यास्तत्र ये यथा हेत्वादिगम्याः ते तथैव प्रवचनधरैः प्रतिपादनीयाः, आगमगम्येषु हेतून् हेतुगम्येषु त्वागममात्रं प्रतिपादयन् आज्ञाविराधकः स्यादित्यामगोरससंपृक्तद्विदलादौ न हेतुगम्यो जीवसद्भावः किन्त्वागमगम्य एव, तथाहि-आमगोरससम्पृक्ते द्विदले आदिशब्दात पुष्पितौदने अहतियाऽतीते च दनि क्वथितान्ने च ये जंतवस्ते केवलज्ञानिभिर्दृष्टा इत्यामगोरसमिश्रद्विदलादिभोजनं वर्जयेदिति, तद्भोजनाद्धि प्राणातिपातलक्षणो दोषः स्यादिति । अहतियातीतमिति कोऽर्थो-दिनद्वयाऽतिक्रमेऽभक्ष्यं, दिवसग्रहणे रात्रिग्रहणं समागतमेव यथात्रिंशद्दिनैर्मासः पञ्चदशदिनैः पक्ष इत्यर्थः, एतावता रात्रिद्वयातिकमे द्वादशादिप्रहरातिक्रान्तं दध्यभक्ष्यम् । यदा प्रथमदिवसे प्रभाते मेलितं तदा षोडशप्रहरानन्तरमप्यभक्ष्यं भवति परं पोडशप्रहरनियमो नेति सम्भाव्यते, यतः पूर्वदिने सन्ध्यायां मेलितं द्वादशप्रहरानन्तरमप्यभक्ष्यं भवति इति ॥१२॥ ॥५६॥ Jain Educat Z a For Private & Personel Use Only www.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy