SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ तथा — विष्णुकुमार एको द्वौ वेति ? प्रश्नोऽत्रोत्तरम् - वासुपूज्यतीर्थे नमुचिकृतोपद्रववारकः प्रथमो द्वितीयः श्रीशान्तिनाथतीर्थेऽभूदित्यष्टाविंशत्युत्तराध्ययनचतुर्दशसहस्रीवृत्तौ ज्ञेयम् ॥ ८७ ॥ तथा -- श्रीहीप्रभृतिषड्देव्यश्चतुर्विंशतिजिनयक्षिण्यः षट्पञ्चाशद्दिकुमार्यः सरस्वती श्रुतदेवी शासनदेवी चेत्येतासां मध्ये का भवनपतिनिकायवासिन्यः काश्च व्यन्तरनिकायवासिन्य इति साक्षरं व्यक्त्या प्रसाद्यमिति, प्रश्नोऽत्रोत्तरम् - श्रीहीप्रभृति षड् देव्यो भवनपतिनिकायान्तर्गता इति मलयगिरिकृत बृहत्क्षेत्रविचारटीकायामिति तथा चतुर्विंशतिजिनयक्षिण्यस्तु व्यन्तरनिकायान्तर्गता एवं सम्भाव्यन्ते, यत उक्तं संग्रहणीसूत्रे'वंतर पुण अट्ठविहा पिसायभूआ तहा जक्खे ' त्यादि ॥ तथा षट्पञ्चाशद्दिक्कुमार्यस्तु श्री आवश्यकचूर्णौ षट्पञ्चाशद्दिक्कुमारीणां ऋद्धिवर्ण ' बहूहिं वाणमंतरेहिं देवेहिं देवीहिंय सद्धि संपरिवुडा' इत्याद्युक्तानुसारेण व्यन्तरनिकायान्तर्गता ज्ञायन्त इति । तथा शासनदेवी तु नियक्षिण्येव नापरेति, तथा सरस्वती श्रुतदेवी तु पर्यायान्तरमिति ज्ञायते परं कुत्रापि तदायुर्माननिकाया न दृश्यन्त इति ॥ ८८ ॥ तथा—“ सुत्ते अत्थे भोअण, काले आवस्सए अ सज्झाए । संथारएवि अ तहा, सत्तेया हुंति मंडलिओ " ॥ १ ॥ एतदूगाथोक्तसप्तमण्डलीसत्यापनस्थानकानि कानि भवन्तीति ? प्रश्नोऽत्रोत्तरं प्रातः स्वाध्यायकरणं सूत्रमण्डली, व्याख्यानमर्थपौरुषी चार्थमण्डली २ भोजनमण्डली प्रतीता ३ कालप्रवेदनं कालमण्डली ४ उभयकालप्रतिक्रमणमावश्यकमण्डली ५ स्वाध्यायप्रस्थापनं स्वाध्याय मण्डली ६ संस्तारकविधिभणनं संस्तारकमण्डली च ज्ञायते ७, किञ्च तृतीयप्रहर प्रतिलेखनादेशमार्गेणमण्डली प्रश्नोत्तरसमुच्चयवचनादावश्यकमण्डल्यन्तर्भूतेति बोध्यम्॥८९॥ तथा - वीरनिर्वाणात् १५२ वर्षे "जीअं काऊण पणं, तुरुमिणिदत्तस्स कालिअज्जेण । अवि अ सरीरं चत्तं, न य भणिअमहम्मसंजुत्तं " ॥ १ ॥ एतद्गा थोपदर्शितचरित्रः कालिकाचार्यः प्रथमः, वीरात् ३३५ वर्षे पढमाणुओग कासी० इति ऋषिमण्डलसूत्रानुसारेण प्रथमानुयोगकर्त्ता द्वितीयः, Jain Educamational For Private & Personal Use Only ww.jainelibrary.org
SR No.600113
Book TitlePrashna ratnakarabhidh Shreesen Prashna
Original Sutra AuthorN/A
AuthorShubhvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1919
Total Pages264
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy